________________
एकस्मात् कुण्डलद्वन्द्वं चन्द्रद्वन्द्वमिवामलम् । देदीप्यमानमन्यस्मात् क्षोभयुद्धं नि१५६ ॥ तानि दिव्यानि रत्नानि नन्दा सानन्दमग्रहीत् । अनभ्रवृष्टिवल्लाभो महतां स्यादचिन्तितः ॥ १५७ ॥ राजा ययाच कपिलां साधुभ्यः श्रद्धयाऽन्विना । मिक्षां प्रयच्छ निर्भिक्षां त्वां करिष्ये धनोचयैः ॥ १२८ ॥ कपिलो से मां सर्वां स्वर्णमयीं यदि । हिनस्सि वा तथाप्येतदकृत्यं न करोम्यहम् ॥ १५९ ॥ कालसौकरिकोsप्यूचे राज्ञा सूनां विमुश्च यत् । दास्येऽर्थं बहुमर्थस्य लोभात्वमसि सौनिकः ।। १६० ।। सूनायां ननु को दोषो ? यया जीवन्ति मानवाः । तां न जातु त्यजामीति कालसौकरिकोऽवदत् ॥ १६१ ।। सूनाव्यापारमेषोऽत्र करिष्यति कथं न्विति । नृपः क्षिप्त्वाऽन्धकूपे तमहोरात्रमधारयत् ॥ १६२ ॥ अथ विज्ञापयामास गत्वा भगवते नृपः । सोऽत्याजि सौनिकः सूनामहोरात्रमिदं विभो ! ॥ १६३ ॥ सर्वज्ञोऽभिदधे राजन्नन्धकूपेऽपि सोऽवधीत् । शतान् पञ्च महिषाणां स्वयं निर्माय मृन्मयान् ।। १६४ ।। लग श्रेणिकोऽपश्यत् स्वयमुद्विविजे ततः । घिगहो मे पुराकर्म नान्यथा भगवद्गिरः ॥ १६५ ॥ श्रीवीरोऽपि तनः स्थानाद्विहरन् सपरिच्छदः । सुरासुरैः सेव्यमानः पृष्टम्पापुरीं ययौ ॥ सालो राजा महासालो युवराजश्च बान्धव । त्रिजगद्वान्धवं वीरं तत्र वन्दितुमेयतुः ॥ १६७ ॥ श्रुत्वा तौ देशनां बुद्धौ जामेयं गागलिं स्वयम् | यशोमतीपिठरयोः सुतं राज्येऽभ्यषिञ्चताम् ॥ १६८ ॥ अथ सालमहासालौ विरक्तौ भववासतः । श्रीमहावीर पादाब्जमूले जगृहतुतम् ॥ १६९ ॥
१६६ ॥
नवमः
सर्ग:
॥ २७४