SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ आद्यो भधिजिनचतुशिला स्व भविष्यसि । पद्मनाभाभिधो राजन् ! खेदं मा स्म कृथास्ततः॥१४२॥ श्रेणिकोऽप्यवदन्नाथ ! क्रिमुपायोऽस्ति कोऽपि सः । नरफायेन रक्ष्येऽहमन्धकूपादिवान्धलः ॥ १४३ ॥ भगवान् व्याजहारेदं साधुभ्यो भक्तिपूर्वकम् । ब्राह्मण्या चेत् कपिलया भिक्षा दापयसे मुदा ।। १४४ ॥ कालसौकरिकणाथ सूनां मोचयसे यदि । तदा ते नरकान्मोक्षो राजञ्जायेत नाऽन्यथा ॥ १४५ ॥ सम्यगित्युपदेशं स हृदि हारमिवोद्वहन् । प्रणम्य श्रीमहावीरं घचाल स्वाश्रयं प्रति ॥ १४६ ॥ अत्रान्तरे परीक्षार्थ वर्दुरांकेन भूपतेः। अकार्य विदधत्साधुः कैवर्त इव दर्शितः ॥ १४७॥ तं दृष्ट्वा प्रवचनस्य मालिन्यं मा स्म भूदिति । निवार्याकार्यतः साम्ना स्वगृहं प्रत्यगावृपः ॥ १४८ ॥ म देवो दर्शयामास साध्वीमुदरिणी पुनः । नृपः शासनभक्तस्तां जुगोप निजवेश्मनि ॥ १४॥ प्रत्यक्षीभूय देवोऽपि तभूचे साधु साधु भोः । सम्यक्त्वाचाल्यसे नैव पर्वतः स्वपदादिव ॥ १५० ॥ नृनाथ ! यादृशं शकः सदसि त्वामवर्णयत् । पृष्टस्ताहश एवासि मिथ्यावाचो न साहशाः ॥ १५१ ॥ दिवा निर्मितनक्षत्रश्रेणिक श्रेणिकाय सः । व्याणयत्ततो हारं गोलकद्वितयं तथा ॥ १५२ ॥ योऽमुं संधास्यते हारं श्रुदितं स मरिष्यति । इत्युदीर्य तिरोधत्त स्वमहष्ट इवामरः ॥ १५३ ।। दिव्यं देव्यै ददौ हारं चेलणाथै मनोहरम् । गोलकद्वितयं तत्तु नन्दायै नृपतिर्मुदा ॥ १५४ ॥ दानस्यास्यास्मि योग्येति सेयं नन्दा मनस्विनी । आस्फाल्य स्फोटयामास स्तंभे तद्गोलकद्वयम् ।। १५५ ॥ ॥२७३
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy