SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ ** * *% PRAKAARAKAAROCH % यौते पान्ति तं द्रष्टुं लोका यास्याम्यहं नथा । सर्वसाधारणी गंगा न हि कस्यापि पैतृकी ॥ १२ ॥ ततोऽस्मद्वन्दनाहेतोरुप्लुत्योत्प्लुत्य सोऽध्वनि । आयस्तेिऽश्वखुरक्षुण्णो भेकः पंचत्वमाप्तवान् ॥ १३० ॥ | दर्दुराकोऽयमुत्पदे देवोऽस्मद्भक्तिभाषितः । भावना हि फलन्येष विनानुष्ठानमप्यहो ॥ १३१॥ इन्द्रः सदस्युवाचेदमुपश्रेणिकमाईताः । अश्रधानस्तदसौ त्वत्परीक्षार्थमागतः ॥ १३२॥ गोशीर्षचन्दनेनायमार्चयच्चरणौ मम | स्वदृष्टिमोहनायान्यत्सर्व व्यधित वैक्रियम् ॥ १३३ ॥ अथोचे श्रेणिकः स्वामित्रमंगल्यं प्रभोः क्षुते । एषोऽन्येषां तु मंगल्यामंगल्यानि किमभ्यः ॥ १३४॥ अथाचचक्षे भगवान किं भवेऽद्यापि तिष्ठसि । शीघं मोक्षं प्रयाहीति मां नियस्वेति सोऽवदत् ॥ १३५ ॥ स स्वामवोचज्जीवेति जीवतस्ते यतः सुखम् | मरके नरशार्दूल ! मृतस्य हि गतिस्तव ॥ १३६ ॥ जीवन धर्म विधत्ते स्पाद्विमानेऽनुत्तरे मृतः। जीव नियस्व वेत्येवं तेनाभयमभाषत ॥ १३७ ॥ जीवन् पापपरो मृत्वा सप्तमं नरकं व्रजेत् । कालसौकरिकस्तेन प्रोक्तो मा जीध मा मृथाः ॥ १३८ ।। तच्छुत्वा श्रेणिको नत्वा भगवन्तं व्यजिज्ञपत् । त्वयि नाथे अगनाथ ! कर्थ मे नरके गतिः ? ॥ १३९॥ बभाषे भगवानेवं पुरा त्वमसि भूपते ! बद्धायुर्नरकं मन तनावश्यं गमिष्यसि ।।१४०॥ शुभानामशुभानां वा फलं प्रारबद्धफर्मणाम् | भोक्तव्यं तद्वयमपि नान्यथा कर्चुमीश्महे ॥ १४१॥ मर्च 1. ॥ २ 'चेर ८. L. D. - 0-90-%ANDAKALACANC AKTAX
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy