SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ I पुर्यां स प्रविशन् पौशे जातविस्मयैः । देदीप्यमानो निर्मुक्तनिर्मोक इव पन्नगः ॥ ११५ ॥ पौरेः पृष्टः पुनर्जात इवोल्लाघः कथं न्यसि ? | देवताराधनादस्मीत्याचचक्षे स तु द्विजः ॥ ११६ ॥ स गत्वा स्वगृहेऽपश्यत् स्वपुन्नान् कुष्ठिनो मुदा । मयाऽवज्ञाफलं साधु दत्तमित्यवदच तान् ॥ ११७ ॥ सुतास्तमेवमूचुश्च भवता तात ! निर्घृणं । विश्वस्तेषु किमस्मासु द्विषेवेदमनुष्ठितम् ॥ ११८ ॥ लोकेश्यमानः स राजन्नागत्य ते पुरम् । आश्रयज्जीविकाद्वारं द्वारपालं निराश्रयः ॥ ११९ ॥ तदा वयमायाता द्वाःस्थोऽस्मद्धर्मदेशनाम् । श्रोतुं प्रचलितोऽमुञ्चत्तं विमं निजकर्मणि ॥ १२० ॥ द्वारोपविष्टः स द्वारदुर्गाणामग्रतो बलिम् । जन्मादृष्टमिवाभुंक्त यथेष्टं कष्टितः क्षुधा ॥ १२१ ॥ आकण्ठं परिशेषाद् प्रोमो ही पन्ना तृषाऽकारि मरुपान्थ वाऽऽकुलः ॥ १२२ ॥ तच्च द्वास्थाभिया स्थानं त्यक्त्वा नागात् प्रपादिषु । स तु वारिश्वराञ्जीवान् धन्यान्मेने तृषातुरः ॥ १२३ ॥ आस्टन वारि वारीति स तृषातां व्यपद्यत । इहैव नगरद्वारबाप्यामजनि दर्दुरः ॥ १२४ ॥ विहरन्तो वयं भूयोऽप्यागमा मेह पत्तने । लोकोऽस्मद्वन्दनार्थ च प्रचचाल ससंभ्रमः ॥ १२५ ॥ अस्मदागमनोदन्तं श्रुत्वाम्भोहारिणीमुखात् । स भेकोऽचिन्तयदिदं काप्येवं श्रुतपूर्व्यहम् ॥ १२६ ॥ ऊहापोहं ततस्तस्य कुर्वाणस्य मुहुर्मुहुः । स्वमस्मरणवज्जातिस्मरणं तत्क्षणादभूत् ॥ १२७ ॥ स. दध्यौ दर्बुरश्चैवं द्वारे संस्थाप्य मां पुरा । द्वाःस्थो यं वन्दितुमगात् स आगाद्भगवानिह ॥ १२८ ॥ ॥ २७१ ॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy