________________
नवमः
चं५........५ कालन बहुना सन्नसैनिकः । प्राकृषि स्वाश्रयं यातुं प्रवृत्तो राजहंसवत् ॥ ७७ ॥ तदा पुष्पार्थमुद्याने गतोऽपश्यञ्च सेडुकः । तं क्षीणसैन्यं प्रत्यूषे निष्पभोडुमिवोडपम् ॥ ७८ ॥ तूर्णमेत्य शतानीकं व्यजिज्ञपदसाविदम् । याति क्षीणपलस्तेऽरिर्भनदंष्ट्र इवोरगः ।। ७९ ॥ यद्योतिष्ठसे तस्मै सदा ग्राह्यः सुखन सः । बलीयानपि खिन्नः सन्नखिन्नेनाभिभूयते ॥ ८० ॥ तद्वचः साधु मन्यानो राजा सर्वाभिसारतः ! निमसार हारालारा गासीरहरणाः ॥ ८१॥ ततः पश्चादपश्यन्तो नेशुश्चम्पे शसैनिकाः । अचिन्तिततडित्पात को वीक्षितुमपि क्षमः ॥ ४२ ॥ चम्पाधिपतिरेकांगः कांदिशीकः पलायितः । तस्य हस्त्यश्वकोशादि कौशाम्थीपतिरग्रहीत् ॥ ८ ॥ दृष्टः प्रविष्टः कौशाम्बीं शतानीको महामनाः । उवाच सेडुकं विनं ब्रूहि तुभ्यं ददामि किम् ? ॥ ८४ ॥ विप्रस्तमूचे याचिष्ये पृष्ट्वा निजकुटुम्बिनीम् । पर्यालोचपदं नान्यो गृहिणां गृहिणी विना ॥ ५ ॥ भट्टः प्रहृष्टो महिन्यै तदशेषं शशंस सः। चेतसा चिन्तयामास सा चैवं बुद्धिशालिनी ।। ८६॥ यद्यमुना ग्राहयिष्ये नृपाद ग्रामादिकं तदा । करिष्यत्यपरान् वारान्मदाय विभवः खलु ॥ ८७॥ दिनं प्रत्येक आलोचस्तथाऽग्रासनभोजनम् । दीनारो दक्षिणायां च याच्योऽथेत्यन्वशात्पतिम् ॥ ८८॥ टि०- * नासीरम् - अग्रसैन्यम् | १ सेन D||
REGARAXAAR
।। २६८॥