________________
H
_..
अहो प्रसन्नचन्द्रस्य ध्यानावस्थेति चिन्तयन् । श्रेणिकोऽगान्महावीरं नत्वा वैषमभाषत ॥ ३८ ॥ प्रसन्नचन्द्रो राजर्षिानस्थो वन्दितो मया। यदा तदा चन्नियेत ततो गच्छेत् क्व शंस मे ॥ ३९॥ सप्तमी भुवमित्याख्यनाथोऽथ श्रेणिकोऽपि हि । दध्यो न साधोनरकस्तन्मया साधु न श्रुतम् ॥ ४० ॥ क्षणान्तरे च भूयोऽपि पप्रच्छ श्रेणिकः प्रभुम् । विपयले प्रसाधुन मस्क मञ्छति ॥४१॥ सर्वार्थसिद्धे यातीति शशंस भगवानपि । द्विधा किं व्याकरणमित्यपृच्छच्छ्रेणिकोऽप्यथ ॥ ४२ ॥ स्वाम्यूचे ध्यानभेदेन द्विधा व्याकरणं ह्यदः । तदा हि दुर्मुखगिरा प्रसन्नः कुपितः खलु ॥ ४३ ॥ जातामर्षश्च सामन्तामात्यायैः सह चेतसा । युध्यमानस्त्वयाऽधन्दि तदा स नरकोचितः ॥ ४४ ॥ त्वय्यायातेऽत्र सोऽमस्त यत् क्षीणान्यायुधानि मे । हन्मि शत्रु शिरस्त्रेणेत्यधिमूर्ध न्यधात्करम् ॥४॥ कृतलुश्च स्पृशन्मौलिं प्रतिबुद्धः स्मरन् व्रतम् । अकार्य धिङ् मयाऽऽरन्धमित्यादि स्वं निनिन्द सः ॥ ४६॥ आलोचितप्रतिक्रान्तः प्रशस्तध्यानमागतः । सर्वार्थसिद्धयोग्योऽभूत्तव प्रश्ने द्वितीयके ॥ ४७ ॥ नम्रान्तरे च प्रसन्नचन्द्रर्षिसविधेऽभवत् । देवदुन्दुभिनि?षमिश्रः कलकलो महान् ॥ ४८ ॥ स्वामिन् ! किमिदमित्युक्ते श्रेणिफेनावदद्विभुः । तस्य ध्यानान्तरस्थस्येदानीमजनि केवलम् ॥ ४॥
नस्य केवलिमहिमामिमां कुर्वन्ति नाकिनः । प्रमोदतुमुलस्तेषां दुन्दुभिध्वानवानयम् ॥ ५० ॥ ॥ १ "प्रियते D. M. ॥ २ "यभिम् 'L.॥