SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ विहरन् स्वामिना सार्धं तप्यमानस्तपः परम् | अजायत स राजर्षिः क्रमात्सूत्रार्थपारगः ॥ २४ ॥ नेनर्षिणापरेचापि ऋषिभिः परिवारितः । विहरन् भगवान् वीरो ययौ राजगृहेऽन्यदा ॥ २५ ॥ तत्र द्रष्टुं जगन्नाथमुत्कः सुतसमावृतः । चचाल श्रेणिकोऽश्वेश्रेणिमण्डित भूतलः ॥ २६ ॥ अग्रrath तस्य चोभौ नगै सुमुखदुर्मुखौ । प्रिभ्याहतपत मिथो नानाकथापरौ ॥ २७ ॥ मार्गे प्रसन्नचन्द्रं तमेकं परादप्रतिष्ठितम् । आतापनां प्रकुर्वाणमूर्ध्वबाहुमपश्यताम् ||२८|( युग्भम् ) तं दृष्ट्वा सुमुखोऽवोचदहो आतापनाजुषः । अस्य स्वर्गीऽपवर्गों वा मुनर्न खलु दुर्लभः ॥ २९ ॥ कर्मतो नामचापि दुर्मुखः प्रत्यभाषत । प्रसनचन्द्रः खल्वेष भूपतिः पोतनेश्वरः ॥ ३० ॥ अस्य धर्मः कुतो येन राज्यभारेऽर्भकः सुतः । नियोजितो वत्सतर इवानसि महीयसि ॥ ३१ ॥ स चास्य सूनुः सचिवैर्दधिवाहनभूभुजा । चम्पानाथेन संभूय राज्यात्प्रच्यावयिष्यते ॥ ३२ ॥ राज्यधर्मः क्षनोऽनेन परन्योऽप्यस्य कचिद्गताः । अदर्शनीयस्तदसौ घृतपाखंडिदर्शनः ॥ ध्यानपर्वतदम्भोलिमेवमाकर्ण्य तद्वचः । प्रसन्नचन्द्रो राजर्षिः सहसेति व्यचिन्तयत् ॥ ३४ ॥ धिगहो अकुनज्ञास्ते मंत्रिणो ये मया सदा । सत्कृता अपि मत्सुनोर्विभेदमधुना व्यधुः ॥ ३५ ॥ अद्याभविष्यं चेत्तत्राशिक्षयिष्यं भृशं हि तान् । विकल्पैरित्यप्रसन्नः प्रसन्नो व्यस्मरद्रुतम् ॥ ३६ ॥ स राजमानी मनसा योद्धुं प्रववृते ततः । तत्र च श्रेणिकः प्राप्तो ववन्दे विनयेन तम् ॥ ३७ ॥ ३३ ॥ f नवमः सर्ग: ।। २६४
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy