SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ अथाख्यद्गीतमोऽस्तीह मम विश्वगुरुर्गुरुः । चतुस्त्रिंशदतिशयः सर्वज्ञश्चरमो जिनः ॥ ११ ॥ तच्छुत्वा हालिकमुनिः सर्वज्ञे प्रीतिमुद्रहन् । उपार्जयहोधिधीजं प्रययो चानुगौतमम् ॥ ११ ॥ प्रभु प्रेक्ष्य च संक्रुद्धः सिंहादिभववरतः । सोऽवोचद्गौतममुनि भगवन् ! कोऽयमग्रतः ॥ १३ ॥ जगाद गौतमोऽसौ मे धर्माचार्यो जिनेश्वरः । सोऽप्यूचे घेद्गुरुस्तेऽसौ तदा नार्यस्त्वयाऽपि मे ॥ १४ ॥ त्वदीक्षयाऽप्यलमिति स रजोहरणादिकम् । त्यक्त्वा ययौ निजक्षेत्रे सीरादि पुनराददे ॥ १५ ॥ स्वामिनं गौतमो मत्वा पप्रच्छ भगवन्निदम् । आश्चर्यमेष विद्वेषी लोकानन्देऽपि यस्त्वयि ॥१६॥ प्रतिपन्नं स्वयमपि व्रत मोज्झितवानसौ । युष्मदालोकनादेव कारणं तंत्र नाथ ! किम् ? ॥ १७ ॥ मय्यसो प्रीतिमान पूर्व गुरुर्मेऽसावितीरित । त्ययि नाथ ! अगित्येव द्वेष्यजायत मय्यपि ॥ १८ ॥ स्वाम्यथाऽऽख्यन्मया सिंहो यस्त्रिपृष्ठेन दारितः । क्रोधात् स्फुरस्त्वया साना शान्तः सारथिना मंम १९ | नत्प्रभृत्येष मद्वेषी जज्ञे स्निग्धः पुनस्त्वयि । तत्प्रेषयं गौतम ! त्वां योधिघीजकृतेऽस्य हि ॥ २० ॥ एवमाख्याय भगवान् प्रययौ पोतनं पुरम् । मनोरमाभिधोद्याने सहहिः समवासरत् ॥ २१॥ प्रसन्नचन्द्रो जिनेन्द्रं वन्दितुं पोतनेश्वरः । समाजगामाश्रौषीच देशनां मोहनाशिनीम् ॥ २२ ॥ स्वामिवेशनया बुद्धो भवोद्विग्नः स भूपतिः। पालमप्यात्मजं राज्ये निधाय व्रतमाददे ॥२३॥ १ चात्र 1 ॥ २ ततः ॥ RAKAKARMERICANASANA ॥२६॥ * + स
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy