SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ ॥ अथ नवमः सर्गः ॥ इतश्च यः सुदंष्ट्राहिकुमारो नौजुषः प्रभोः । उपसर्गानकृत स क्वचिद् ग्रामेऽभवद्बली ॥ १ ॥ कृप्याजीवकोऽन्येयुः सीरेण ऋष्टुमुर्वराम् । यावत्प्रवृत्तस्तावत्तं श्रीवीरो ग्राममाययौ ॥ २ ॥ स्वामिना तस्य बोधाय प्रेषितो गौतमोऽवदत् । किमिदं क्रियते ? दैवनियुक्तमिति सोऽब्रवीत् ॥ ३ ॥ भूयोऽपि गौतमोऽचत् क्षुद्रजीविकयाऽनया । जीवतस्तव किं सौख्यं ? किं वा सुचरितं भवेत् ! ॥४॥ न केवल मिहैवेदं कष्टकृद्र । कर्म ते । प्राणातिपातभूयिष्ठं कष्टायान्यभवेष्वपि ॥ ५ ॥ कर्मणोऽमुष्य कष्टस्य कष्टं लक्षांशतोऽपि हि । क्रियते धर्मकार्ये चेत्कष्टान्तः स्यात्तदा खलु ॥ ६ ॥ इत्यादि गौतमेनोक्तः स ऊचे साध्वहं त्वया । बोधितोऽय भषोद्विनं परिव्राजय मां ततः ॥ ७ ॥ प्रबुद्ध इति विज्ञाय गौतमस्तमवीक्षयत् । गन्तुं श्रीवीरपादान्ते समं तेन चचाल च ॥ ८ ॥ पच्छ हालकर्षिस्तं गन्तव्यं भगवन् ! क्व तु । गौतमोऽप्यवदत् साधो ! मन्तव्यमुपमद्गुरु ॥ ९ ॥ हालकोऽप्यब्रवीदेवं न तुल्यः कोऽपि ते ध्रुवम् । तवापि किं गुरुः कोऽपि ! स च स्यात्कीदृशो ननु ? १० नवगः | सर्ग: ।। २६२ ।
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy