SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ MEMORAVILAYMAA.A.VAATM.. ईश्वरोऽचिन्तयश्चैवं जीवा अवनिकायिकाः । सर्वत्रापि विमृद्यन्ते को हि तान् रक्षितुं क्षमः ।। ५२६ ॥ अश्रद्धेयमिदं वाक्यं लाघवायास्य केवलम् । श्रुत्वाऽप्यदोऽनुतिष्ठेत् क उन्मत्तस्येव भाषितम् ॥ ५२६ ॥ मुक्त्वेदं यद्यसौ किंचिच्छामण्यं मध्यपक्षगम् । समाख्याति तदा नूनं लोकः सर्वोऽपि रज्यति ॥५२७॥ यद्वा हा ! हा ! हतोऽस्मीति नानुतिष्ठाम्यहं यदि ।जनोऽपि नानुतिष्ठेत् किं सर्वज्ञैर्भाषितं ह्यदः ।। ५२८॥ अर्हद्वाक्यान्यथाकारप्रायश्चित्तं मयाऽधुना । ग्रात्यमित्यगमत्तं प्रत्येकवुद्धं महामुनिम् ॥ ५२९ ॥ तस्यापि धर्मव्याख्याने सोऽोषीद्यन्मुनिस्त्यजेत् । पृथिवीकायमुख्यानां समारम्भंत्रिधाऽपि हि ॥ ५३० ॥ ईश्वरोऽचिन्तयत्कोऽमून्नाऽऽरभेत तथा त्यसो । पृथ्व्यां निषीदत्यनाति चाग्निपर्क 'पिषत्यपः ॥ ५३१ ॥ आत्मन्यपि विसंवादि तद्वदत्येष कद्वदः । वरं गणधरः सोऽस्तु यद्वा सोऽपि विरुद्धवाक् ॥ ५३२ ॥ अमूभ्यां तवलं द्वाभ्यां धर्म वक्ष्यामि तं स्वयम् । अविरक्तः सुखसुखमनुष्ठास्थति यं जनः । ॥ ५३३ ॥ एवं चिन्तयतस्तस्य मूर्षि विद्युत् पपात खात् । मृत्वा च सप्तमावन्यामुदपादि स नारकः ॥ ५३४ ॥ श्रुतशासनसम्यक्त्वप्रत्यनीकत्वपापजम् । दुःखं सत्र चिरं भुक्त्वा मत्स्यः सोऽन्धाविहाभवत् ॥ ५३५ ॥ भयोऽगात्सप्तमोा सोऽत्रैत्य काका खगोऽभवत । ततोऽगात प्रथमावन्यां दष्टश्चात्य चाभवत ॥ भूयोऽगात्पथमावन्यां खरोऽभूवन षड्भवान् । ततो मनुष्यः संजज्ञे मृतो नाऽभूनेचरः।। ५३७ ॥ १ पिबेत्ययः C. ॥ २ इत आरम्य अग्रिमसर्गरथ चिह्नपर्यंतः पाठः नास्ति ८ प्रतौ ॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy