SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ - स्वशिष्यान् बोधयित्वैवं विहरन्नवनीतलम् । कर्मक्षयेण गोशालजीवो निर्वाणमेष्यति ॥ २१२ ॥ भूयोऽपि गौतमोऽपृच्छत् केन प्राग्जन्मकर्मणा । प्रत्यनीको बभूवैवं गोशालो भगवंस्तव || ५१३ ॥ अrissख्यद्भगवान जंबूद्वीपेऽत्र भारते । प्राक्चतुर्विंशतावर्द्धनुदायो नामतोऽभवत् ॥ २१४ ॥ तस्य मोक्षमहिमानं कर्तुमीयुः सुरासुराः । प्रत्यन्तवासी तानेकः प्रेक्ष्य जातिस्मरोऽभवत् ॥ ५१५ ॥ प्रत्येकबुद्धः प्राब्राजीत् स तदैव महाशयः । आर्पयद् ब्रतिलिंगं च तस्मै शासनदेवता ॥ ५१६ ॥ तप्यमानं तपस्तीव्रं पूज्यमानं वन्यनम् । यमतं तिदुर्मतिः ।। ५१७ ॥ केन त्वं दीक्षितः ? कुत्रोत्पन्नः ? किं वा कुलं तव । । कुतो वा सूत्रमर्थं च समुपार्जितवानसि ? ॥ ५१८ ॥ प्रत्येकबुद्धः स महामुनिराख्यदशेषतः । दध्यौ चेतीश्वरो नूनं दंभेनाति प्रजामसौ ॥ २१९ ॥ मन्ये यागमेनोक्तं ताहग्वक्ता जिनोऽपि हि । यद्वाऽपमोहो नेदृक्षं स वदेशामि तं ततः ।। ५२० ।। प्रव्रज्यामभिनन्दामि सर्वदुःखापहामिति । ध्यात्वैवं स गयौ तत्र न चापश्यज्जिनेश्वरम् ॥ ५२१ ॥ पार्श्वे गणवरस्याथ प्रव्रज्यां स उपाददे । मोहगर्भिनवैराग्यः कपिवन्मन्दबुद्धिकः ॥ ५२२ ।। मोक्षप्राप्ते जिने पर्षद्यासीनो गणभृज्जगौ । यावज्जिनोक्तसूत्रार्थमालापस्तावदित्यभूत् ॥ ५२३ ।। अप्येकं पृथिवीजीवं विनाशयति यः खलु । असंयतः समाख्यातो जैनेन्द्रे स हि शासने || ५२४ ॥ ? D. L. H अष्टमः सर्गः ॥ २५८
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy