SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ अष्टमः कोपिष्यति (च) चेत्कोऽपि निरागस्ताडनान्मुनिः । स्वतेजसा तदा स त्वां सराष्ट्रमपि वक्ष्यति* ॥४८६॥ || ४ तैरित्युक्तो विना भावं तद्वचः प्रतिपत्स्यते । सोऽन्यदा तु रथारूढः क्रीडयोद्यानमेष्यति ॥ ४८७ ॥ स त्रिज्ञानं मुनि सिद्धतेजोलेश्यं सुमंगलम् । कायोत्सर्गस्थितं तत्र द्रक्ष्यत्यातापनापरम् ॥ ४८८ ॥ सोऽथ निष्कारणक्रुद्धो विरुद्धः साधुदर्शने । तं रथाग्रेण पर्यस्य महर्षि पातयिष्यति ॥ ४८९ ॥ स उत्थाय मुनिर्भूयः कायोत्सर्ग करिष्यति । तथैव भूपति यस्तं पृथ्व्यां पातयिष्यति ॥ ४९० ।। उत्थाय स्थास्यति पुनः कायोत्सर्गे सुमगंलः । प्रयुज्य चाऽवधि ज्ञात्वा तद्भवानिति वक्ष्यति ॥ ४२१ ॥ रे! न देवसेनोऽसि न वा निमलवाहनः । स्मर गोशालकोऽसि त्वं सूनुमखस्य मंखलः ॥ ४१२ ॥ येन चाऽऽशातितो धर्मगुरुश्चरमतीर्थकृत् । नच्छिष्यौ च परिप्लुष्टौ दुर्मदन तदा त्वया ॥ १९३ ॥ यथा हि तैस्तदा क्षान्तं क्षमिष्येऽहं तथा न हि । भूयः करिष्यसेऽवश्चेद्धश्यामि त्वां क्षणात्तदा ॥ ४१४ ।। तनेत्युक्तोऽधिकं दीप्तः सर्पिःसिक्त इवानलः । पातयिष्यति भूयोऽपि महापद्मः सुमंगलम् ॥ ४९५ ॥ क्रमानपेत्य सप्ताष्टान् स तेजोलश्यया मुनिः । निधक्ष्यति महापद्मं सरथ्यरथसारथिम् ॥ ४९६ ॥ तत्कर्माऽऽलोच्य स मुनिः पालयित्वा चिरं व्रतम् । अन्ते च मासानशनं कृत्वा सर्वार्थमेष्यति ॥ ४९७ ॥ प्रयास्त्रंशत्सागरस्यायुषोऽन्ते स परिच्युतः । महाविदहेपूत्पद्य दीक्षया मोक्षमेष्यति ॥ ४९८ ॥ *अस्मिन् पादे एकम् अक्षरम् न्यूनं वर्तते । अष्टाक्षरप्रमाणे पादे सप्ताक्षरभवनेन |
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy