SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ PRAKAR प्रथमः सर्ग सम्यग्ज्ञातयतिधर्मः स्वशरीरेऽपि निःस्पृहः । त्रिगुप्तः पञ्चसमितिर्निष्कषायो महाव्रती ॥३०॥ स्थविराणां पुरोऽङ्गानि पठन्नेकादशापि हि । ऋषभस्वामिना सार्धं मरीचिय॑हरचिरम् ॥३१॥ (युग्मम् ) सोऽपरेदा ग्रीष्मऋतावुषणांशुकरदारुणे। प्रतिमार्ग पान्थपादनखपचरजश्चये ॥३२॥ स्वेदार्टीभूतसर्वाङ्गमललिप्तांशुकद्वयः । तृष्णार्ताऽचिन्तयदिति चारित्रावरणोदयात् ॥३३॥ (युग्मम्) न श्रामण्यगुणान्मेरुसमभारान दुरुद्वहान् । निर्गुणोऽहं भवाकाङ्क्षी वोढुं प्रभुरतः परम् ॥३४॥ किं त्यजामि व्रतं लोके तत्त्यागे लज्ज्यते खलु । लब्धो वाऽयं मयोपायो व्रतं येन क्लमो न च ॥३॥ श्रमणा भगवन्तोऽमी त्रिदण्डविरताः सदा । अस्तु दण्डनिर्जितस्य त्रिदण्डी मम लांछनम् ॥६॥ केशलोचादमी मुण्डाः क्षुरमुण्डः शिखी त्वहम् । महावतधराश्चामी स्यामणुव्रतभृत्त्वहम् ॥३७॥ निष्किंञ्चना मुनयोऽमी भूयान्मे मुद्रिकादि तु । अमी विमोहा मोहेन च्छन्नस्य छन्नमस्तु मे ॥३८॥ उपानद्रहिताश्चामी सञ्चरन्ति महर्षयः । पादत्राणनिमित्त मे भवतामप्युपानहौ ॥३१॥ सुगन्धयोऽमी शीलेन दुर्गन्धः शीलतस्त्वहम् । सौगन्ध्यहेतोर्भवतु श्रीखण्डतिलकादि मे ॥४०॥ अमी शुक्लजरद्वस्त्रा निष्कषाया महर्षयः । भवन्तु मे तु वासांसि काषायाणि कषायिणः ॥४१॥ १ "गुप्तिः ॥ टि.- *कषायवर्णरतानि ।। , KARXXXSAS * ॥४॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy