________________
मत्पुण्यै!यमायाता वनेऽत्रातिथयो मम । इत्युक्त्वा भोजनस्थानं स निन्ये तान्महामुनीन ॥१८॥ स्वार्थोपनीतः पानाः स मुनीन् प्रत्यलाभयत् । अन्यत्र गत्वा विधिना तेऽप्यमुखत साधवः ॥१॥ ग्रामायुक्तोऽपि हि भुक्त्वा गत्वा नत्वाऽवदन्मुनीन् । चलन्तु भगवन्तोऽद्य पूर्मार्ग दर्शयामि वः ॥२०॥ ने तेन सह चेलम्च मापुश्च नगरीपथम् । तरोरधश्चोपविश्य धर्म तस्याचचक्षिरे ॥२१॥ स प्रत्यपादि सम्यक्त्वं धन्यमन्यः प्रणम्य तान् । वलित्वा दारूणि राज्ञे प्रैषीद ग्रामे स्वयं स्वगात् ॥२२॥ अथाभ्यस्यन सदा धर्म सप्ततत्त्वानि चिन्तयन् । सम्यक्त्वं पालयन् कालमनैषीत् स महामनाः ॥२॥ विहिताराधनः सोऽन्ते स्मृतपश्चनमस्कृतिः । मृत्वा बभूव सौधर्म सुरः पल्योपमस्थितिः ॥२४॥ इतश्चात्रैव भरते विनीतेत्यस्ति पूर्वरा । पुरा युगादिनाथस्य कृते सुरवरः कृता ।।२८॥ तन्न श्रीऋषभस्वामिसूनुर्नवनिधीश्वरः । चतुर्दशरत्नपतिर्भरतश्चक्रवयंभूत् ॥२६॥ ग्रामचिन्तकजीयः स च्युत्वाऽभूत्तस्य नन्दनः । मरीचीन विकिरंस्तेन मरीचिरिति विश्रुतः ॥२७॥ आये समवसरणे ऋषभस्वामिनः प्रभोः। पितृघ्रात्रादिभिः सार्ध मरीचिः क्षत्रियो ययौ ॥२८॥ महिमामं प्रभोः प्रेक्ष्य क्रियमाणं स नाकिभिः । धर्म चाकर्ण्य सम्यक्त्वलन्धधीव्रतमाददे ॥२९॥
१ ग्यात्
॥
HI