SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ नातिनापी यातिनिसागर जी महाराज प्रथमः सर्ग साधुसम्बन्धबाह्योऽपि सोऽकृत्येभ्यः पराङ्मुखः । दोषान्वेषणविमुखो गुणग्रहणतत्परः ॥६॥ सोऽन्यदा वरदारुभ्यः पृथिवीपतिशासनात् । सपाथेयो महाटव्यामादाय शकटानगात् ॥७॥ तस्य च्छेदयतो वृक्षान्मध्यन्दिनमुपाययौ । जठरेऽग्निरिव व्योम्नि दिदीपे तपनोऽधिकम् ॥८॥ भृतकैर्नयसारस्य सारा रसवती तदा । समयहरुपनिन्ये मंडपाभतरोरधः ॥९॥ क्षुधितस्तृषितो वापि यदि स्यादतिथिर्मम । तं भोजयामीति नयसारोऽपश्यवितस्ततः ॥१०॥ क्षुधितास्तृषिताः श्रान्ताः सार्यान्वेषणतत्पराः। घर्माम्भःप्लुतसर्वांगाः साधवश्चाययुस्तदा ॥११॥ साध्वमी साधवो मेऽत्रातिथयः समुपस्थिताः । चिन्तयन्निति नत्वा तान् सोऽब्रवीद् ग्रामचिन्तकः ॥१२॥ भगवन्तो भवन्तोऽस्यामटव्यां कथमागताः । एकाकिनः शस्त्रिणोऽपि पर्यटन्ति न खत्विह ॥१३॥ तेऽप्यभ्यधुर्वयं स्थानात् सार्थेन प्रस्थिताः पुरा । ग्राम प्रविष्टा भिक्षायै ययौ सार्थस्तदैव हि ॥१४॥ अनात्तभिक्षाश्चलिताः सार्थस्यानुपदं वयम् । आगच्छन्तो महाटव्यामस्यां निपतितास्ततः॥१५॥ नयसारोऽब्रवीदेवमहो ! सार्थोऽतिनिष्कृपः । अहो पापादप्यभीरूरहो विश्वस्तघातकः ॥१६॥ यत्सह प्रस्थितान् साधून सार्थप्रत्याशया स्थितान् । *अनागमय्य प्रययौ निजकार्यकनिष्टुरः ॥१७॥ पा, भे.-१ सर्वस्त टि.-* अप्रतीक्ष्य।
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy