________________
कलिकालसर्वज्ञ-श्रीहेमचन्द्राचार्यविरचितं ॥ श्रीत्रिपष्टिशलाकापुरुषचरितम् महाकाव्यम् ॥
॥ दशमं पर्व ॥ ॥ श्रीमहावीरचरितम् ।।
॥ प्रथमः सर्गः ॥ नमो दुर्वाररागादिवैरिवारनिवारिणे । अर्हसे योगिनाधाय महावीराय तायिने ॥१॥ अथास्य देवदेवस्य देवासुरनरार्चितम् । चरितं कीर्तयिष्यामः पुण्यवारिसरोवरम् ॥२|| अस्यैव जम्बूद्वीपस्य प्रत्यग्विदेहभूषणे । विजयेऽस्ति महावने जयन्ती नामतः पुरी ॥शा । दोषीर्येण समुत्पन्न इव नव्यो जनार्दनः । महासमृद्धिस्तत्रासीन्नृपतिः शत्रुमर्दनः ॥४॥ तस्य ग्रामे तु पृथिवीप्रतिष्ठानाभिधेऽभवत् । स्वामिभक्तो नयसाराभिधानो ग्रामचिन्तकः ॥५॥