________________
अहमः सर्गः
न केवलमयं स्वात्मा नरकायातिथीकृतः । किं त्वयं सकलो लोकोऽप्यसन्मार्गोपदेशनः ॥ ४६० ॥ भववियत्यपि गने लोको यातु पथैव हि । विमृश्यैवं समाय शिष्यानेवमथावदत् ॥ ४६१ ॥ भो ! भोः ! शृणुन सर्वेऽपि नाहमहन केवली । किं त्वस्मि मंखलिसुतो गोशालो बीरशिष्यकः ॥४६॥ आश्रयाशो वहिरिव प्रत्यनीको गुरोरहम् । मया दंभादियकालमात्मा लोकश्च वंचितः ॥ ४६३॥ छद्मस्थोऽहं मरिष्यामि दस्यमानः स्वतेजसा । वामांनौ रज्जुभिर्यद्ध्वा कर्षणीयः पुरीह भोः ॥ ४६४ ।। निष्ठीवडिर्मम मखे मां कर्षद्रितश्ववत । घोषणीयमिदं पुर्या त्रिक,गाटकादिषु ॥४३०॥ स एप मखलिसुतो गोशालो दंभितप्रजः । मुनिघात्यजिनो दोषनिधानं गुरुतल्पगः ॥ ४६६ ।। जिनस्तु भगवान् व.रः सर्वज्ञः करुणानिधिः। हितोपदेष्टा न्यहोष्ट गोशालस्तं मुधैव हि ।। ४६७ ॥ इत्यर्थे शपथं दत्त्या व्यथया स व्यपयत । तच्छिष्याश्च कुलालोकोद्वाराणि पिदधुर्हिया ।। ४६८ ॥ श्रावस्तीमालिखंस्तत्र शिष्याः शपथमुक्तये । तथा गोशालमाकर्षन कुर्वन्तो घोषणादिकम् ॥ ४६९ ।। ततो निष्कमयामासुस्तद्गोशालकलेवरम् । ऋद्धया महत्या तच्छिष्याश्चक्रुश्च ज्वलनातिथिम् ॥ ४७० ॥ प्रभुः श्रीवर्धमानोऽपि मेंढकग्राममभ्यगात् । चैत्ये च समवासार्षीत्तत्र कोष्टकनामनि ॥ ४७१ ॥ स्वामिनं तत्र चापृच्छत् समये गौतमो मुनिः। गोशालः कां गतिमगात् स्वाम्यूचे सोऽच्युनं गतः॥४७२।।
AAKAASHAKAKKARAN
॥२५४॥