SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ इत्युक्तस्तैरभिगन्तुं स प्रावर्तिष्ट तेऽपि हि । तस्याऽऽगमं संशयं च गोशालस्य पुरोऽवदन् ॥ ४४७ ॥ तेऽन्यतो मद्यपानादि गोशालेन व्यमोचयन् । आसने चासयाश्च स्तदा घाऽऽगादयंपुलः ।। ४४८ ।। तलो निषण्णमग्रे तमूचे गोशालकोऽपि हि । तृणगोपालिका किंसंस्थानति तव संशयः ॥ ४४९ ॥ तृणगोपालिकां विद्धि वंशीमूलसमाकृतिम् । श्रुत्वेति मुदितः सयोऽयंपुलः स्वाश्रयं ययौ ॥ ४५० ॥ अन्येशुश्चेतना लब्ध्वा ज्ञात्वाऽन्तसमयं निजम् । शिष्यानाहू य गोशालो व्याजहारेनि सादरः ॥ ४२१ ।। मृतस्य मे वपुः स्नप्यं गन्धाम्भोभिर्विलेपनैः। सुगन्धिभिविलेप्यं चाऽऽमोच्यं चोत्कृष्टवासमा ॥ ४५२॥ भूध्यं च भूषणर्दिव्यैरारोप्यं तदनन्तरम् । सहस्रवाहां शिबिकां ततो नि:सार्थमत्मवात् ॥ ४.३ ॥ अयमत्रावसर्पिण्यां चतुर्विंशो जिनेश्वरः । गोशालः प्रययौ मोक्षमित्युद्घोष्यं पुरेऽखिले ॥४४॥ ते तथा प्रत्यपद्यन्त गोशालोऽप्यहि सप्तमे । जातशुद्धाशयः पश्चात्तापादेवमचिन्तयत् ।। ४५५ ।। अहो ! पापोऽहमहन्तं वीरं धर्मगुरुं निजम् । निनान्तमाशालितवास्त्रिधाऽप्यत्यन्तदुर्मतिः॥ ४५६ ॥ अभाणयं च सर्वज्ञमात्मानं सर्वतोऽपि हि । मृषोपदशैः सत्याभैः सर्व लोकं प्रतारयन् ॥ ४५७॥ बिङ्मही मया दग्धौ गुरुगृह्यावुभौ च तौ । तेजोलेझ्या स्वदाहायामुच्यत स्वामिने च धिक् ॥ ४५८ ॥ कृते दिनानां स्लोकानां किमकार्य मया कृतम् । भूयिष्टनरकावासविनिवासनियन्धनम् ॥ ४५९ ॥ १ वास्तस C| "त्वा तं सा स्वातं स । ॥२३॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy