________________
तेजोलेश्याक्लिश्यमानवपुष्को विलपन्नथ । भूमी पपात गोशालः शालगुरिव वायुना ॥ ४२२ ॥ गुर्ववज्ञाप्रकुपिता मुनयो गौतमादयः । एवं मर्माविवा वाचोचकैाँशालमूचिरे ॥ ४२३ ॥ धर्माचार्यपातिकूल्यभाजां भो ! भवतीदृशम् । तेजोलेश्या क तव सा धर्माचा नियोजिता ? ॥ ४२४ ॥ सुचिरं विब्रुवाणोऽपि निवन्नपि महामुनी । कृपयरेक्षितो ग वनलोड विपरस्पते ४२५ ॥ व्यपत्स्यथाः पुराऽपि त्वं वैशिकायनलेश्यया । स्वलेश्यया शीतया त्वां नारक्षिष्यद्यदि प्रभुः ॥ ४२६ ॥ शार्दूल इव गर्ताऽन्तः पनितस्तेषु साधुषु । निः कर्तुं सोऽक्षमस्तस्थाबुद्वेग्लनपरः क्रुधा ॥ ४२७ ।। निःश्वसन दीर्घमुष्णं च दंष्ट्रालोमानि चोत्खनन् । पादाभ्यां ताडयत्नुीं हतोऽस्मीति मुहब्रुवन् ॥ ४२८ ।। निष्क्रम्य स्वामिसदसो दस्युषद्वीक्षिनो जनैः। हालाहलाकुम्भकार्या गोशालोऽगमदापणम् ४२१. (युग्मम्) अथ स्वामी मुनीनूचे तेजो गोशालकेन यत् । अस्मद्वधाय प्रक्षिप्तं तस्येयं शक्तिरूर्जिता ॥ ४३० ।। वत्साच्छकुत्समगधवंगमालवकोशलान् । पाटलाटवज्रिमालिमलयाबाधकांगकान् ॥ ४३१ ॥ काशीन् सुमोत्तरान् देशान् निर्दग्धुं षोडशेश्वरा । तेजोलेश्या गोशालस्य तपसोग्रेण साधिता । ४३२ ॥ ने विसिम्मियिर सर्वे मुनयो गौतमादयः । सन्तः शक्तौ परस्यापि मात्सर्यं न हि विभ्रति ॥ ४३३ ॥ गोशालकोऽपि स्वेनैव दत्यमानोऽथ तेजसा । तापशान्त्यै पपी मयं दधानो मद्यभाजनम् ॥ ४३४ ॥ १ सहोत D. M.॥
॥२५१