________________
गोशालमुक्तया तेजोलेश्यया प्रज्वलत्ततुः । प्रभुं प्रदक्षिणीकृत्याऽऽदाय भूयो व्रतानि च ॥ ४१० ॥ आलोच्या प्रतिक्रम्य क्षमयित्वाऽखिलान्मुनीन् । सुनक्षत्रमुनिर्मृत्वाऽच्युतकल्पे सुरोऽभवत् ॥ ४११ ॥
1
युग्मम् ) जितकाशी च गोशालस्ततोऽनिपरुषाचरम् । समाक्रोशन्निजगदे स्वामिना करुणाजुषा ॥ ४१२ ॥ दीक्षितः शिक्षितश्चामि श्रुतभाक् च मया कृतः । ममैवावर्णवादी त्वं कोऽयं ते धीविपर्ययः १ ॥ ४१३ ॥ स्वामिना स्वयमित्युक्तो गोशालः कुपितो भृशम् । उपेत्य किंचिदमुचत्तेजोलेश्यां प्रभुं प्रति ॥ ४१४ ॥ स्वामिन्यप्रभविष्णुः सा महावात्येव पर्वते । प्रभुं प्रदक्षिणीच भक्तिभागनुहारिणी ॥ ४१५ ॥ संतापमात्रं स्वाम्यंगेऽभूत्तेजोलेश्यया तया । तीरकक्षोद्भवेनेव दावेन सरिदम्सः ॥ ४१६ ॥
काय प्रयुक्ताधिगनेनेति कुधेव सा । तेजोलेश्या निवृत्यांगे गोशालस्याविशडलात् ॥ ४१७ १ तयाऽन्तर्दद्यमानोऽपि गोशालो घाटर्यमाश्रितः । भगवन्तं महावीरमभ्यप्रत्तैवमुद्धतः ॥ ४१८ ॥ मत्तेजोलेश्या ध्वस्तः षण्मासान्ते हि काश्यप । पित्तज्वरपराभूतइद्मस्थोऽपि विपत्स्यसे ॥ ४१९ ॥ स्वास्थोवाच गोशाल ! भूषा से यागहं यतः । अन्यानि षोडशाब्दानि विहरिष्यामि केवली ॥ ४२० ॥ स्वतेजोलेश्ययैव त्वं पुनः पित्तज्वरार्दितः । विपत्स्यसे सप्तदिनपर्यन्ते नात्र संशयः || ४२१ ।।
१ ददे L ||
———
*6*6*+
अष्टमः
सर्ग:
॥ २५० ॥