SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ गोशालस्तव यः शिष्यः स हि शुक्लाभिजातिकः । धर्मध्यानस्थितो मृत्वा त्रिदशेषूदपथत ॥ ३९७ ।। तहऽस्मिन्नुपसर्गपरीषहसहेऽविशम् । उदायनामाऽहमषिः परित्यज्य निजं वपुः ॥ ३९८ ॥ ततो मामपरिज्ञाय गोशाल मखलेः सुतम् । स्वशिष्यं कथमाख्यासि न खल्वसि गुरुर्मम ।। ३९९ ॥ स्वाम्यथोचे यथाऽऽरक्षः क्रम्यमाणो मलिम्लुचः । गत दुर्ग वनं वाऽपि स्वान्तर्धानमवाप्नुवन् ॥ ४.०॥ ऊर्णालोना शणलोम्ना सूलांशेन तृणन यात मन्धनन्तरदत्तनात्मानमावृतमल्पधीः ॥ ४०१॥ एवं त्वमपि गोशालोऽनन्योऽप्याख्यान स्वमन्यथा । किमर्थं भाषसेऽलीकं स एवास्यपरो न हि ॥ ४०२॥ एवं स्वामिगिरा युद्धो गोशालोप्यब्रवीत् प्रभुम् । अद्य भ्रष्टोऽसि नष्टोऽसि न भवस्येष काश्यप !॥४०३॥ सर्वज्ञशिष्यः सर्वानुभूतिगुवनुरागतः। अक्षमस्तद्वचः सोढुं गोशालकमभाषत ।। ४०४॥ गुरुणा दीक्षितोऽनेन शिक्षितोऽस्यमुनैव हि । निनुषे हेतुना केन गोशाल ! त्वं स एव हि ॥ ४०५॥ अथ गोशालकः कोपात्तेजोलेश्यामनाहताम् । सर्वानुभूतयेऽमुञ्चद् हग्ज्वालामिव इग्विषः॥ ४०६॥ निर्दह्यमानः सर्वानुभूतिगोशाललेश्यया । शुभध्यानपरो मृत्वा सहस्रारे सुरोऽभवत् ॥ ४०७॥ गोशालोऽपि हि तत्कालं स्वलेझ्याशक्तिगर्वितः । निर्भर्त्सयितुमारेभे भगवन्तं पुनः पुनः ।। ४०८ ॥ स्वामिशिष्यः सुनक्षत्रस्तमथ स्वामिनिन्दकम् । गुरुभक्त्याऽनुशास्ति स्म भृशं सर्वानुभूतिवत् ॥ ४०९ ॥ १ नान्यो ८॥ ॥२४९॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy