________________
पON
..
खातात्तस्मान्नाकृशृंगात् सद्यो द्रम्मा विनिर्ययुः । विभज्यावसरवर्ज चत्वारो जगृहुश्च तान् ॥ ३८४ ॥ चख्नुश्चतुर्थमपि ते शृंगं स्वर्णं च लेभिरे । ततो रजतमप्योज्झन सुवर्णादानलोभतः ॥ ३८५ ॥ रत्नानि पश्चमे शृंगे भविष्यन्तीति बुद्धितः । चख्नुस्तदपि लोभान्धा लाभाल्लोभो हि वधत ॥ ३८६ ॥ अत्यन्तमथितादब्धेः कालकूट इचोत्कटः । तस्माच्छंगात् खन्यमानादुत्तस्थौ ग्विषोरगः ।। ३८७ ॥ वल्मीकामस्थितः सोऽहिः प्राक् सूर्य प्रेक्ष्य तान्दशा । भस्मीचकार चतुरः सगन्त्रीवृषभानपि ॥ ३८८ ।। निर्लोभ इत्यवसरं सगन्त्रीवृषमप्यथ । तस्याहेर्देव्यधिष्ठात्री प्रापयत् स्थानमीप्सितम् ॥ ३८९ ॥ धक्ष्यामि त्वद्गुरुं सर्पोऽधाक्षीत्ताश्चतुरो यथा । मोक्ष्यामि त्वामहं सोऽहिर्मुमोचावसरं यथा ।। ३९० ॥ ततोऽसमाप्तभिक्षार्थ एवाऽऽनन्दो ययौ प्रभुम् । भोशालोक्त सदायल्याषच्छच्चति शंकितः ॥ ३९१॥ भस्मराशीकरिष्यामीत्युक्तं गोशालकेन यत् । उन्मत्तभाषित तत् किं तत्कर्तुमथवा क्षमः १ ॥ ३९२ ॥ अथाचचक्षे भगवान हद्भ्यः सोऽन्यतः क्षमः । अहंतामपि सन्तापमानं कुर्यादनार्यधीः ॥ ३९३ ॥ तद्गत्वा गौतमादीनां शंसेदं ते यथा हि तम् । इहागतं नोदनया धर्मायापि नुदन्ति न ॥ ३१४ ॥ तेषां गत्वाऽऽख्यदानन्दस्तदा गोशालकोऽपि हि । तत्रागात् स्वामिनोऽग्रे चावस्थाय व्यब्रवीदिति ३९५ || भोः काश्यप ! वदस्येवं गोशालो मखलेः सुतः । अन्तेवासी ममत्यादि सन्मृषा भाषितं तव ।। ३९६ ॥ १ तु C. L. 1.0 -
.
.
...
.
.
M
.
॥२४८
M
HOM