SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ स्थानमनहन्तमगदई व बक्ति माप । लेजोलेश्यां न म वेत्ति विपक्षदहनक्षमाम् ३७० ॥ भस्मराशीकरिष्यामि तमहं सपरिच्छदम् । त्वामेवैकं विमोक्ष्यामि दृष्टान्तोऽत्र निशम्यताम् ॥ ३७१ ॥ अवसरः प्रसरश्च संवादः कारकस्तथा । भलनो वणिजोऽभूवन क्षेमिलायां पुरा पुरि ॥ ३७२ ।। भाण्डैरापूर्य शकटान्निर्ययुस्त वणिज्यया। यान्तश्च निर्जलारण्यं विविशुः किंचिदध्वनि ॥ ३७३ ॥ ते पञ्चापि तृषाक्रान्ता मरुमार्गगता इव । जलं गवेषयामासुः पर्यटन्तो महाटवीम् ॥ ३७४ ॥ भ्राम्यन्नवसरः पञ्चशिखरं वामलूकम् । ददर्शादर्शयत्तेषां चतुर्णा सुहृदामपि ॥ ३७५ ।। ते तस्य पूर्वशिखरं संभूयाऽस्फोटयन द्रुतम् । तस्माश्च लेभिरे वारि तत्पीत्वा सुस्थतां ययुः ॥ ३७६ ॥ अथोचे प्रसरोऽपाच्यशृंगमप्यस्य दीर्यताम् । लप्स्यामहे नूनमितो वस्त्वन्यदपि किंचन ।। ३७७ ॥ अथाब्रवीदवसरः खननं नास्य युज्यते । उत्थास्यत्यहिरेतस्मानिाकुरोको हि भोगिनाम् ॥ ३७८ ॥ अवादीदथ संवादो विसंवादोऽप्यभूदिह । यत्परिस्फोटितात्पूर्वशिखरान्नाहिरुत्थितः ॥ ३७९ ॥ भूमोऽप्यवसरोऽवोचदेवादिह पयोऽभवत् । अथोचे कारको दैवाद् द्रम्मा इह नु भाविनः ॥ ३८०॥ इत्युदित्वा तत् खनितुं समारभत कारकः । मतं ममेदं नत्युक्त्वा गन्त्रीमवसरो ययौ ॥ ३८१॥ वभाषे भलनो यातोऽवसरो यदि यातु तत् । विनाऽप्यमुं खनिष्याम इति सर्वेऽपि तेऽखनन् ॥ ३८२ ।। टि०- वामदरः - वल्मीकः राफटो इति गुर्जरभाषायाम् ) नाकुः - वन्मीकः ।
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy