SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ तस्य चार्हन्निति ख्यातिं लोक आकर्ण्य मुग्धधीः । उपत्योपेत्य विदधे निरन्तरमुपासनम् ॥ ३५७ ॥ इतश्च समये प्राप्ते गौतमः स्वाम्यनुज्ञया । प्राविशत् पुरि भिक्षार्थं चिकीर्षुः पष्ठपारणम् || ३५८ ।। गोशालास्ति सर्वज्ञोऽर्हनित्याकर्ण्य तत्र च । गौतमः सविषादोऽगादात्तभिक्षोऽन्तिके प्रभोः ॥ ३५९ ॥ यथावत् पारणं कृत्वा गौतमः समये प्रभुम् । पश्यतां पौरलोकानामपृच्छत् स्वच्छधीरिति ॥ ३६० ॥ स्वामिन्नमेतस्यां व्याहरन्त्यखिला जनाः । सर्वज्ञ इति गोशालं किमेतद् घटते न वा ? ॥ ३६१ ।। अथाख्यद्भगवानेष सूनुर्मखस्य मंखलेः । अजिनोऽपि जिनंमन्यो गोशालः कपटालयः || ३६२ ॥ ata दीक्षितश्चार्य शिक्षां च ग्राहितो मया । मिथ्यात्वं प्रतिपन्नो मे सर्वज्ञो नैष गौतम ! ॥ ३६३ ॥ तत्तु स्वाभिवचः श्रुत्वा पौराः पुर्यामितस्ततः । एवं बभाषिरेऽन्योऽन्यं चत्वरेषु त्रिषु च ॥ ३६४ ॥ हे हो अर्हनिहायानो वीरस्वामी वदत्यदः । गोशालो मंखलिसुतो मिथ्या सर्वज्ञमान्यसौ ॥ ३६५ ।। जनश्रुत्वा ततः श्रुत्वा गोशालः कालसर्पवत् । आपूर्यमाणः कोपेन तस्थावाजी कावृतः ॥ ३६६ ॥ इनश्च स्वामिनः शिष्य आनन्दः स्थविराग्रणीः । षष्ठपारणकं कर्तुं भिक्षार्थं प्राविशत् पुरि ।। ३६७ ॥ हालाहला गृहासीनो गोशालस्तत्प्रदेशगम् । आनन्दमुनिमाय साधिक्षेपमदोऽवदत् ॥ ३६८ ॥ भो आनन्द ! तवाचार्या लोकात् सत्कारमात्मनः । इच्छन् वीरः सभान्वक्षं मां तिरस्कुरुतेतराम् ।। ३६९ ।। ?" ( 37. 11 अष्टमः सर्गः ॥२४६
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy