SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ बहिरस्मात्पुरात् कुम्भकारापणशतानि मे । पंच सन्ति तेषु पीठाद्यादायाऽनुगृहाण माम् ॥ ३१७ ॥ तद्वयः प्रत्यपादशस्तं च गोशालशिक्षया । उपात्तान्नियनिवादामुक्ति मेविन्यवर्तयत् ॥ ३२८ ॥ T नियनिवास प्रमाणीकृत्य पौरुषम् । आनन्द इव शिश्राय स्वाम्यग्रे श्रवकव्रतम् ॥ ३१९ ।। परं विशेष नियमे निधिवृद्धिनियोगगाः । तिस्रस्तस्य स्वर्णकोट्यो वजस्त्वेको गवामिति ॥ ३२० ॥ अग्निमित्रा च तत्पत्नी तेनैव प्रतिबोधिता । आगत्य स्वामिनः पार्श्वे शिश्रिये श्रवकम् ॥ ३२९ ॥ विहर्तुमन्यतोऽचालीत्ततश्च भगवानपि । गोशालकोऽपि श्रपीज्जन श्रुत्येदमुच्चकैः ॥ ३२२ ॥ आजीवकानां समयं हित्वा शब्दालपुत्रकः । निर्बंधानां श्रमणानां शासनं प्रतिपन्नवान् || ३२३ ।। ततश्चाचिन्तयत्तत्र गत्वा शब्दालपुत्रकम् । आजीवकानां समये स्थापयाम्यद्य पूर्ववत् ॥ ३२४ ॥ इत्यागात्तत्र गोशालस्तद्वेइमाऽऽजीवकैर्वृतः । तं च शब्दालपुत्रो न हशाऽपि समभावयत् ॥ ३२५ ॥ शब्दापुत्रं गोशालः स्वे संस्थापयितुं मते । श्रवकत्वाञ्चलयितुं चांडशक्तो निर्ययौ पुनः || ३२६ || अधिराजगृहं वरये गुणशिलाह्वये । गत्वाऽथ समवासार्षीत् सुरासुरनिषेवितः ॥ ३२७॥ चुलनीपितृतुल्यर्द्धिर्महाशनकनामकः । गृह्यभूत्तस्य पत्न्यश्च रेवत्यायास्त्रयोदश ॥ ३२८ ॥ हिरण्यकोढ्यो रेवत्या अष्टावष्ट व्रजाः पुनः । एका कोटी ब्रजचैकोऽन्यासां प्रत्येकमप्यभूत् ॥ ३२९ ॥ 2415 37. 11 ॥ २४३ ॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy