SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ कामदेव इव स्वामिपादाग्रे श्रावकवतम् । सोऽग्रहीनियमांश्चापि पुष्पया भार्यया सह ॥ ३०४ ॥ इतश्च पोलाशपुरे गोशालोपासकोऽवसत् । शब्दालपुत्रः कुलालोऽग्निमित्रा तस्य च प्रिया ॥ ३० ॥ हिरण्यकोटिस्तस्यैका निधानेऽन्या तु वृद्धिगा । तृतीया व्यवहारेऽभूद् व्रज एकच गोऽयुतम् ॥ ३०६ ॥ यहिश्च पोलांशपुरात् कुम्भकारस्य तस्य तु । कुम्भकारापणशतान्यासन् पंच सदापि च ॥ ३०७ ॥ तमशोकवनेऽवोचत्रिदशः कोऽपि यत्प्रगे । सर्वज्ञोऽहन्महाव्रत्मा त्रैलोक्याय॑ इहैष्यति ॥ ३०८ ।। सेवेवास्तं च फलकपीठस्रस्तरकादिना । गवं द्विस्त्रिर्गदित्वा तं त्रिदशः स तिरोदधे ॥ ३०९॥ आजीवभक्तो दध्यौ स नूनं धर्मगुरुः स मे । सर्वज्ञः खल गोशालः प्रातरत्र समेष्यति ॥ ३१० ॥ विचिन्त्यैवं स्थित तस्मिन् प्रातस्तत्र समागतः । श्रीवीरः समवामार्षीत् सप्टसाम्रचणे धन ॥ ३११ ।। कुम्भकारः सोऽपि गत्वा भगवन्तमवन्दत । कृत्वा च देशनां स्वामी ने कुलालमभाषत ॥ ३१२॥ शब्दालपुत्र ! भो यस्त्वामशोकवनगं सुरः । कोऽप्यूचे यत्प्रगे ब्रह्मा सर्वज्ञोऽहनिहष्यति ॥ १३ ॥ उपास्यः स त्वया पीठफलकादिसमर्पणात् । त्वयाऽपि तद्रािऽचिन्ति यद्गोशाला समेष्यति ॥ ३१४ ॥ इति स्वामिवचः श्रुत्वा सोऽचिन्तयदहो अयम् । सर्वज्ञोऽर्हन्महावीरो महाब्राह्मण आगतः ॥ ३१५॥ तन्नमस्करणीयोऽयमुपास्यः सर्वधाऽपि हि । इत्युत्थाय प्रभुं नत्वा स प्राञ्जलिरदोऽवदत् ॥ ३१६ ।। १-२- 'लासपु .॥ CARRAGACASSAGAR
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy