SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ यथासुखं गृहाणेति स्वामिनाऽनुमतस्ततः । प्रतिपेदे श्रावकाई धर्म द्वादशधाऽपि सः ॥ २९१ ॥ अष्टाष्टकोट्यभ्यधिक स्वर्ण निध्यादिषु त्रिषु । ब्रजेभ्योऽन्यानधाष्टभ्यः प्रत्याचख्यो बजानपि ॥ २९२ ॥ नियमं चान्यवस्तूनां कामदेव इयाददे । श्यामा तत्पत्न्यपि स्वामिसमीपे श्रावकवतम् ॥ २९३ ॥ तदा च गौतमो नत्वा पप्रच्छेति जगत्पतिम् । महाव्रतधरः किं स्यान्न बाध्यं चुलनीपिता ? ॥ २९४ ॥ अथोच स्वामिना नैष यतिधर्म प्रपत्स्यते । गृहिधर्मरतः किं तु मृत्वा सौधर्ममेष्यति ॥ २१५ ॥ अरुणाभे विमाने च चतुःपल्योपमस्थितिः। ततश्च्युत्वा विदेहेषूत्पद्य निर्वाणमेष्यति ॥ २९६ ।। तत्रैवाऽऽसीत् सुरादेवो गृही धन्या च तत्प्रिया । आसीत्तस्य हिरण्यादि पुष्कलं कामदेववत् ॥ २९७ ॥ स कामदेववद्गत्वा स्वाम्यग्रे श्रावकवतम् । नियमांश्चाग्रहीत् सार्धं धन्यया धर्मधन्यया ॥ २९८ ॥ ततश्च विहरन स्वामी पुरीमालभिकां ययौ । तत्र शंखवनोद्याने भगवान् समवासरत् ॥ २९९ ॥ पुर्या नत्राभवच्चुल्लशतिको नामतो गृही । कामदेवसमस्त्वृद्ध्या बहलेति च तत्मिया ॥३०० ॥ स कामदेववद्गत्वा श्रीवीरचरणान्तिके । समं बहलया धर्म प्रपेदे नियमानपि ॥३०१ ॥ ततश्च काम्पिल्यपुरे जगाम विहरन प्रभुः । सहस्राम्रवणनामन्युद्याने समवासरत् ॥ ३०२ ।। तत्रासीत्कामदेवर्द्विर्गृहस्थः कुंडकोलिफः । नाम्ना पुष्पेति तद्भार्या शीलालंकारशालिनी ॥ ३०३ ।।
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy