SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ YLNMAMTALAYYYY ततः सौधर्मकल्पेऽसौ विमाने चारुणप्रभे । भविष्यत्यमरवरश्चतुःपल्योपमस्थितिः ॥ २६४ ॥ इतश्च जालवीहंसश्रेणिभिरिव चारुभिः । चैत्यध्वजै राजमाना चम्पेत्यस्ति महापुरी ॥ २६५ ॥ भोगिभोगायतभुजस्तंभः कुलगृहं श्रियः । जितशत्रुरिति नाना तस्यामासीन्महीपतिः ॥ २६६ ।। अभूद् गृहपतिस्तस्यां कामदेवाभिधः सुधीः । आश्रयोऽनेकलोकानां महातरुरिषाध्वनि ॥ २६७ ॥ लक्ष्मोरिव स्थिरीभूता रूपलावण्यशालिनी । अभूगद्राकृतिर्भद्रा नाम तस्य सर्मिणी ॥ २६८ ॥ निधौ षट् स्वर्णकोव्यः षड् वृतौ गड् पारगाः जा रहट् लरूप दशगोसहस्रमितयोऽभवन् ॥२६॥ तदा च विहरन्नुवी तम्रोवामुखमंडने । पूर्णभद्राभिधोद्याने श्रीवीरः समवासरत् ॥ २७ ॥ कामदेवोऽथ पादाभ्यां भगवन्तमुपागमत् । शुश्राव च श्रोत्रसुधां स्वामिनो धर्मदेशनाम् ॥ २७१ ॥ कामदेवस्ततो देवनरासुरगुरोः पुरः। प्रपेदे द्वादशविधं गृहिधर्म विशुद्धधीः ।। २७२ ।। प्रत्याख्यत् स विना भद्रा स्त्रीजान षद्ब्रजी चिना । निधौ वृद्धौ व्यवहारे षट् षट् कोटीविना वसु २७३ | शेषं च वस्तुनियममानन्द इव सोऽग्रहीत् । ततः प्रभुं नमस्कृत्य ययौ निजनिकेतनम् ॥ २७४ ।। स्वयमात्ते श्रावकत्वे तेनाऽऽख्याते च तत्प्रिया । भद्राऽप्युपेत्य जग्राह स्वाम्यग्ने श्रावकवतम् ॥ २७५ ।। इतश्च काशिर्नाम्नाऽनुगंगमस्ति पुरी वरा । विचित्ररचनारम्या तिलकधीरियावनेः ॥ २७६ ॥ १ पुण्यभ" C.| K॥२३९
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy