________________
मधर्मचारिणी तस्य रूपलावण्यहारिणी । बभूव शिवनन्देति शशांकस्येव रोहिणी ॥ २३८ ॥ निधी वृद्धी व्यवहारे चतस्रोऽस्य पृथक् पृथक् । हिरण्यकोटयोऽभूवंश्चत्वारश्च वजा गवाम् ॥ २३९॥ तत्पुरादुत्तरमाच्यां कोल्लाकाख्योपपत्तने । आनन्दस्यातिरहयो बन्धुसंथन्धिनोऽभवन् ॥ २४०॥ तदा च पृथ्वीं विहरञ्जिनः सिद्धार्थनन्दनः । तत्पुरोपवने देतिपलाशे समवासरत् ॥२४१ ॥ जितशत्रुर्महीनाथस्त्रिजगन्नाथमागतम् । श्रुत्वा ससंभ्रमोऽगच्छद्वन्दितुं सपरिच्छदः ॥ २४२॥ आनन्दोऽपि ययौ पद्धयां पादमूले जगत्पतेः । कर्णपीयूषगण्डषकल्पां श्रुत्वा च देशनाम् ॥ २४३ ॥ अथानन्दः प्रणम्यांहो त्रिजगत्स्वामिनः पुरः। जग्राह द्वादशविध गृहिधर्म महामनाः ॥ २४४ ॥ शिवनन्दामन्तरेण स्त्रीः स तत्याज हेम तु । चतस्रश्चतस्रः स्वर्णकोटीर्निध्यादिगा विना ॥ २४५ ॥ प्रत्याचख्यो बजानेष ऋते च चतुरो प्रजान् । क्षेत्रत्यागं च विदधे हलपंचशतीं विना ॥ २४६ ॥ शकटान् वर्जयामास पंच पंचशतान्यते। दिग्यानाव्यापूतानां च वहां चानसां स तु ॥ २४७ ॥ दिग्यात्रिकाणि चत्वारि स सांवाहमिकानि च । विहाय वहनान्यन्यवाहनानि व्यवर्जयत् ॥ २४८ ॥ अपरं गन्धकाषाय्याः स तत्याजांगपुंसनम् । दन्तधावनमाज़्या मधुयष्टेने जहौ ॥ २४९ ॥ वर्जयामास च क्षीरामलकादपरं फलम् । अभ्यंगं च विना तैले सहस्रशतपाकिमे ॥ २५० ।। के दूत । स्ति' 1 ॥
॥ २३॥