SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ LAM.MMYAMKV. LYAVATMAV--- उवाच चण्डप्रयोतः शतानीकस्य पश्यतः । मृगस्येव मृगी सिंहो ग्रहीष्यामि भृगावतीम् ॥ १५७ ॥ राजनीतिस्तथाऽप्यस्तु यातु दृतस्तदर्थने । अनर्थः प्रथमं तस्य मा भूदादेशकारिणः ॥ १५८ ॥ इति प्रेषीद्वनजंघं सोऽनुशिष्य तदन्तिके । गत्वा सोऽपि शतानीकं इतराडेवमब्रवीत् ॥ १५९ ॥ शतानीकादिशति त्वां चण्डप्रद्योतभूतिः । देवी मृगावती लब्धा त्वया देवादियं खलु ॥ १६०॥ स्त्रीरत्नमीदृशं योग्य भामेव त्वं हि कीदृशः । तच्छी प्रेषयास्मभ्यं राज्यं प्राणाश्च चेत्प्रियाः ॥१६१ ॥ शतानीकोऽप्यथोवाच कोपाद्रे तपांशन ! । अनाचारं वदन्नेवं दूनत्वान्नाय हन्यसे ॥ १६२ ॥ ईदृग्मय्यप्यनायत्ते यस्येच्छा तस्य पाप्मनः। स्वाधीनायांक आचार: प्रजायां हन्त वर्तते ॥ १६३ ॥ शतानीकनपेणैवं दूतो निर्भर्त्म निर्भयम् । निर्वासितोऽगादवन्त्यां प्रद्योतस्य शशंस च ॥ १६४ ॥ क्रुद्धोऽय चण्डप्रद्योतः सैन्यैराच्छादयन् दिशः । चचाल प्रतिकौशाम्बि निर्मर्याद इवार्णवः ।। १६५ ॥ श्रुत्वा प्रद्योतमायान्तं गरुत्मन्तमिवोरगः । जातातिसारः प्रक्षोभाच्छतानीको व्यपद्यत ॥ १६६ ॥ देवी मृगावती दध्यो पतिस्तावद्वयपादि मे । यालः स्वल्पबलः सूनुरसावुदयनोऽपि च ॥ १६७ ॥ बलीयसोऽनुसरणं नीतिः स्त्रीलम्पटे त्विह । सा मे कुलफलंकाय तस्माच्छन्नेह युज्यते ॥ १६८॥ वाधिकैरनुकूलैस्तदेतमत्र स्थताऽप्यहम् । प्रलोभ्य कालं नेष्यामि समयप्राप्तिकांक्षया ।। १६९ ॥ १ मृगी C... || १२३१
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy