________________
farai तां यथारूपां सोऽथ चित्रकरोऽलिखत् । तथाप्यमर्षाद्राजा तत्सवंशकमकर्तयत् ॥ १४५ ॥ चित्रकृत् सोऽपि तं यक्षं गत्वाऽश्रयदुपोषितः । सोऽप्यूचे वामहस्तेन तद्वश्चित्रं करिष्यसि ॥ १४६ ॥ एवं वरश्चित्रकरोऽमर्षादचिन्तयत् । अहं निरागास्तेनेमां किं राज्ञा प्रापितो दशाम् ॥ १४७ ॥ तस्य प्रतिकरिष्येऽहमुपायेनापि केनचित् । कुर्वन्ति विक्रमासाध्यं साध्यं बुद्धधैव श्रीधनाः ॥ १४८ ॥ एवं विमृश्य फलके कल्पिताकल्पभूषणाम् । विश्वैकभूषणं देवीं स लिलेख मृगावतीम् ॥ १४९ ॥ स्त्रीलोलस्य प्रचण्डस्य चण्डप्रद्योत भूपतेः । गत्वा मृगावतीरूपं स मनोज्ञमदर्शयत् ॥ १५० ॥ तत्प्रेक्ष्य चण्डप्रोस्तमूचे चित्रकवर ! | विज्ञानकौशलं मन्ये तवेदं न तु वेधसः ॥ १५१ ॥
दृष्टपूर्वस्मिन् श्रुतपूर्वं न वा दिवि । केथं रूपमलेखीदं प्रतिच्छन्दं विना त्वया ।। १५२ ।। आख्याहि सत्यतः केयं येन गृह्णाम्यसुमहम् । अस्थाने कविदस्त्येषा मय्येवौचित्यमश्चति ॥ १५३ ॥ पूर्णो मनोरथो मेsसाविति हृष्टोऽथ चित्रकृत् । शशंस पुरि कौशास्त्र्यां शतानीकोऽस्ति भूपतिः ॥ १५४ ॥ नानामृगावती पूर्णमृगांकास्या मृगेक्षणा । एषाऽग्रमहिषी तस्य मृगारातिसमौजसः ॥ १५५ ॥ लेखितुं तां यथावस्थां विश्वकर्माऽपि न क्षमः । मया तु किंचिल्लिखिता दूरे सा वचसामपि ॥ १५६ ॥
१ रूपं ॥
15
अष्टमः
स्वर्गः
| ॥ २३०