SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ तत्रान्यदा शतानीका सभास्थो गर्वितः श्रिया । ऊचे दूतं नास्ति किं मे यदस्ति परभूभुजाम् ॥ १३१ ।। तव चित्रसमा नास्तीत्यूचे दूतेन भूपतिः। स चाऽदिशचित्रकरान् सभाचित्रणहतवे ॥ १३२ ॥ चिप्रकृद्भिः सभाभूमिर्विभज्य जगृहे च सा। अन्तःपुरासन्नदेशस्तस्य चित्रकृतस्त्वभूत् ।। १३३ ॥ चित्रं तत्र च कुर्वाणो जालकस्यान्तरेण सः। पादांगुष्ठं मृगावत्या देव्याः सोर्मिकमैक्षत ॥ १३४ ॥ इयं मृगावती देवीत्यनुमानात् स चिनकृत् । आलिखत्तां तथारूपां यक्षराजप्रसादतः ॥ १३५ ॥ उन्मील्यमाने नेत्रे तृरुमूले कूर्चिकामुखात् । निपपात मषीयिन्दुः सोऽपनिन्ये च तं द्रुतम् ॥ १३६ ॥ भूयोऽपतन्मषीविन्दुर्भूयः सोऽपि ममार्ज तम् । भूयश्च पतितं प्रेक्ष्य स चित्रकृदचिन्तयत् ॥ १३७ ।। नूनं लाञ्छनमेतस्याः प्रदेशे ह्यत्र विद्यते । भवितव्यं ततोऽनेन नापनेष्याम्यतः परम् ॥ १३८ ॥ एवं समापिने चित्रे तत्रागादीक्षितुं नृपः । पश्यन् क्रमेण तद्रूपं मृगावत्याः ददर्श च ॥ १३९॥ । ऊरौ प्रेक्ष्य च तं विन्दु क्रुद्धो राजा व्यचिन्तयत् । विध्वस्ता नूनमेतेन पापेन मम पत्न्यसौ ॥ १४ ॥ अन्यथा वस्त्रमध्यस्थं मषग्रन्धि मृगीदृशः । मृगावत्या विजानीयात् कथमेष दुराशयः ।। १४१ ॥ इति कोपेन तं दोषमुदीर्य नृपतिः स्वयम् । आरक्षकाणां तं सद्यो निग्रहाय समार्पयत् ॥ १४२ ।। नृपं चित्रकृतोऽथोचुरसावकाशदर्शनात् । लिखत्यखिलमालेख्यं यक्षदत्तवरौजसा ॥ १४३ ॥ इत्युक्ते तत्परीक्षार्थं श्माभुजा क्षुद्रचेतसा । वरचित्रकृतस्तस्य दर्शितं कुब्जिकामुखम् ॥ १४४ ॥ ॥२२९॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy