________________
उवाच स्थविराऽप्येवं वत्स त्वमपि मे सुतः । सोऽप्युवाचाम्ब ! मे भ्राता मयि सत्यस्तु सुस्थितः ॥११८॥ | स कृत्वा समये षष्टं स्नात्वा चन्दनचर्चितः । शुच्यंाकोऽष्टगुणया पट्या संयमिताननः ॥ ११९ ॥ नूननैः कूर्चकैरग्रयैर्वर्णकैस्तमधिनयत् । चित्रकृहारको यक्ष नत्वा चैवमवोचत ।। १२० ॥ सुरप्रिय सुरश्रेष्ठ निमातु चित्रकर्म ते । कोऽलमत्यन्तनिष्णोऽपि मुग्धः कोऽहं वराककः ॥ १२१ ॥ नथापि हि यथाशिक्षं यक्षराज ! मया कृतम् | युक्तायुक्तं तत्क्षमस्व निग्रहानुग्रहक्षम ! ॥ १२२ ॥ एवं तस्य गिरा तुष्टो यक्षो विनयसारया । ऊचे वरं वृणीष्वेति वने चित्रकृदयदः ॥ १२३ ॥ त्वं देव ! यदि तुष्टोऽसि वराकस्य ममाधुना । वरस्तदयमेवास्तु मार्यों नातः परं जनः ।। १२४ ॥ यक्षोऽप्यूचे सिद्धमेतद्यत्त्वं नैव विनाशितः। अन्यथाचस्व भो भद्र ! स्वार्थसिद्धिनिबन्धनम् ॥ १२५ ॥ चित्रकृत्पुनरूचेऽथ मारिश्चंद्रक्षिता त्वया । संजातः कृतकृत्योऽहं स्वामिनेतायतापि हि ॥ १२६ ॥ विस्मितोऽधायदद्यक्षः परार्थवरयाचया । भूयोऽपि तव तुष्टोऽस्मि घृणु स्वार्थकृते वरम् ॥ १२७ ॥ उवाच चित्रकृदपि तुष्टोऽसि यदि देय ! मे । यस्य द्विपदस्य चतुःपदस्यान्यस्य वापि च ॥ १२८ ॥ पश्याम्येकांशमपि हि तदंशस्यानुसारतः । यथावस्थिततद्रूपालेखने शक्तिरस्तु मे ॥ १२९ ॥ (युग्मम्) एवमस्त्विति यक्षेणोदितः पौरैश्च पूजितः । ययौ पुरी स कौशाम्बीं शतानीकनृपाश्रिताम् ॥ १३० ।।
GROADCARRIOCLERKARMA
१'रज्वेट!