________________
दह्यमानं परं प्रेक्ष्य बभाषे प्रियदर्शना । भो ढंक ! त्वत्प्रमादेन पश्य दग्धः पटो मम ॥ ९१ ॥
युवा मा साध्वि ! मृषा बादीर्मते हि वः । सकलेऽपि पटे दग्धे युज्यते वक्तुमीदृशम् ॥ ९२ ॥ मानोऽपि दग्वोऽयमिति बाक् श्रीमदर्हताम् । युज्यते प्रतिपत्तुं तत्तद्वचोऽनुभवादपि ॥ ९३ ॥ तच्छ्रुत्वा साऽपि चोत्पन्नशुद्धधीरादिति । अनि साध्यस्मि बोधिता ॥ ९४ ॥ ही दूषितत्कालं श्रीरस्वामिनो वचः । तन्मियादुष्कृतं मेऽस्तु तत्प्रमाणमतः परम् ।। ९५ ।। अव ढंको बभाषे तां साधु चेतितवत्यसि । गच्छाधुनापि सर्वज्ञं प्रायश्चित्तं समाचर ॥ ९६ ॥ टंकेनेत्युदिनेच्छामोऽनुशिष्टिमिति भाषिणी । हित्वा जमालिं सपरीवारा वीरं जगाम सा ॥ ९७ ॥ जमालिवर्जमन्येऽपि ढंकेन प्रतिबोधिताः । सर्वेऽपि मुनयो जग्मुः श्रीवीरस्वामिनोऽन्तिके ॥ ९८ ॥ ततो जमालिरेकाकी कुमतेन प्रतारयन् । महीं पर्याट भूयांसि वर्षाणि व्रतमाचरन् ॥ ९९ ॥ अन्तेऽर्धमासानशनं कृत्वा दुष्कर्म तन्निजम् । अनालोच्य मृतः कल्पे षष्ठे किल्बिषिकोऽभवत् ॥ १०० ॥ मृतं जमालिं विज्ञाय वन्दित्वा गौतमः प्रभुम् । पप्रच्छ कां गतिं प्राप ? जमालिः स महातपाः ॥ १०१ ॥ स्वाम्याख्यल्लान्तके कल्पेऽभवत् किल्विषिकामरः । त्रयोदशसमुद्रायुर्जमालिः स तपोधनः ॥ १०२ ॥ भूयोऽपि गौतमोऽपृच्छत्तपोभिस्तादृशैरपि । सोऽभूत् किल्विषकः कस्माच्च्युत्वा च क स यास्यति । १०३ अथाख्यद्भगवान् धर्मगुरूणां शीलशालिनाम् । उपाध्यायकुलगणसंघानां च विरोधिनः ॥ १०४ ॥
T
अष्टमः
सर्गः
॥ २२