SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ अक्षये मे समुत्पन्ने केवलज्ञानदर्शने । सर्वज्ञः सर्वदर्शी चाह मेयानिह क्षितौ ॥ ७७ ॥ अथोचे गौतमस्त्वं भो ! जमाले ! ज्ञानवान् यदि । किं शाश्वतोऽशाश्वतो वा जीवो लोकश्च शंस तत् ७८ तस्य प्रत्युत्तरं मूढो जमालिर्दातुमक्षमः । प्रसारितमुखस्तस्थौ शून्यो वायसपोतवत् ।। ७९ ।। अधोचे भगवान् बोरो जमाले ! विद्धि तत्त्वतः । शाश्वतोऽशाश्वतश्रायं लोको जीवोऽपि लोकवत् ॥ ८० ॥ araisi aorरूपत्वाच्छाश्वतोऽशाश्वतः पुनः । प्रतिक्षणपरिध्वंसि पर्यायापेक्षया खल ॥ ८१ ॥ जीवोsपि द्रव्यरूपत्वापेक्षत्वेनैष शाश्वतः । अशाश्वतो नृदेवादिपर्यायान्तरसंभवात् ॥ ८२ ॥ एवमाख्यात्यपि नाथे मिथ्यात्वमथिताशयः । निर्ययौ समवसृतेर्जमालिः सपरिच्छदः ॥ ८३ ॥ ततो जमालिः संघेन निह्वत्वाद्वहिष्कृतः । स्वामिनः केवलोत्पत्तेस्तदाऽब्दानि चतुर्दश ॥ ८४ ॥ स्वदर्शनाभिप्रायं स सर्वत्रापि प्ररूपयन् । स्वच्छन्दधारी सर्वज्ञमानी व्यहरतावनिम् ॥ ८५ ॥ जज्ञे प्रसिद्धिः सर्वत्र यज्ञमालिर्जगद्गुरोः । मोहाद्विप्रतिपन्नः सन् मिथ्यात्वं प्रतिपन्नवान् ॥ ८६ ॥ fararver सोऽगाच्छ्रावस्तीं नगरीं पुनः। तस्थावेकत्र घोषाने परिवार समावृतः ॥ ८७ ॥ आर्यासहस्रसहिता साप्यार्या प्रियदर्शना । तस्थौ ढंककुलालस्य शालायामृद्धिशालिनः ॥ ८८ ॥ परमश्रावको कस्ता डा कुमतस्थिताम् । बोधयिष्याम्युपायेन केनापीति व्यचिन्तयत् ॥ ८९ ॥ सभाण्डान्यन्यदोचिन्वन् बुद्धिपूर्वमलक्षितम् । पटे प्रियदर्शनायाश्चिक्षेप हुतभुक्कणम् ॥ ९० ॥ | ॥ २३
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy