________________
सर्वज्ञः केवलालोकज्ञानत्रैलोक्यवस्तुकः । प्रमाणं भगवान् वीरो युक्त्ययुक्ती मुधैव ते ॥ ६४ ॥ यवादीमाले ! त्वं स्खलनं महतामिति । मत्तस्येव प्रमत्तस्येवोन्मत्तस्येव ते वचः ॥ ६५ ॥
I
क्रियमाणं कृतमिति साधु सर्वज्ञभाषितम् । न चेत्तद्वचसा राज्यं संत्यज्य प्राव्रजः कथम् ? ॥ ६६ ॥ अदृष्यं दूषयंस्तस्य वचनं किं न लज्जसे ? । निमज्जसि भवाम्भोधौ किमनेन स्वकर्मणा ॥ ६७ ॥ प्रायश्चित्तं गृहाण त्वं श्रीवीरस्वामिनोऽन्तिके । निजं तपो जन्म चेदं मा स्म नैषीर्निरर्थकम् ॥ ६८ ॥ अप्येकाक्षरमात्रं यः श्रद्दधात्यर्हतां न हि । प्रपद्यते स मिध्यात्वं ततो भवपरंपरांम् ॥ ३९ ॥ बहुवा स्थविरैरेवं जमालियोधितोऽपि हि । न न्यवर्तिष्ट कुमतान्मौनमेव तु शिश्रिये ॥ ७० ॥ कुमनप्रतिपन्नं तं हित्वा केऽपि सदैव हि । स्थविराः स्वामिनं जग्मुः केऽपि तत्रावतस्थिरे ॥ ७१ ॥ मोहन स्त्रीसुलभेन प्राकू स्नेहेन च शिश्रिये । जमालिपक्षं सपरीवाराऽपि प्रियदर्शना ॥ ७२ ॥ क्रमाज्जमालिरुल्लाघ आत्मानमपरानपि । व्युद्ग्राहयन् दुर्मतेन तेन च प्रतिवासरम् ॥ ७३ ॥ हसन् जिनेन्द्रवचनं सर्वज्ञोऽहमिति ब्रुवन् । साहंकारः प्रववृते विहर्तुं सपरिच्छदः ॥ ७४ ॥ युग्मम्) सोऽन्येrः पुरिचंपायां पूर्णभद्राभिषे वने । श्रीवीरं समवसृतं गत्वाऽवादीन्मदोद्धरः ॥ ७५ ॥ छद्मथा असमुत्पन्नचला भगवंस्तव । शिष्या विपन्ना भूयांसस्ताहगस्मि न खल्वहम् ॥ ७६ ॥ १ युक्तायुक्त ( ||२८ ॥
अष्टम
सर्ग:
॥ २२४