SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ स्वाभिजन्मजरामृत्युभीतौ त्वां शरणं श्रितौ । स्वयं दीक्षाप्रदानेन प्रसीदानगृहाण नौ ॥ २३ ॥ ददौ तयोः स्वयं दीक्षां समाचारं शशंस च । आवश्यकविधिं चाख्यनिरवद्यमनस्कयोः ॥ २४ ॥ वसन्त सन्तो यत्राहरपि तत्रोपकारिणः । किं पुनर्भगवान् विश्वकृतज्ञग्रामणीः प्रभुः ॥ २५ ॥ देवानन्दां चन्दनायै स्थविरेभ्यस्त्ववर्षभम् । स्वामी समर्पयामास तौ चाऽपातां परं व्रतम् ॥ २६ ॥ rataraint at नानाविधतपः परौ । अवाप्य केवलज्ञानं मृत्वा शिवमुपेयतुः ॥ २७ ॥ भगवान् वमानोsपि जगदानन्दवर्धनः । विजहार ततो धात्रीं ग्रामाकरपुराकुलाम् ॥ २८ ॥ क्रमाच्च क्षत्रियकुण्डग्रामं स्वामी समाययौ । तस्थौ समवसरणे विदधे चाथ देशनाम् ॥ २९ ॥ स्वामिनं समवसृतं नृपतिर्नन्दिवर्धनः । ऋद्ध्या महत्या भक्त्या च तत्रोपेयाय वन्दितुम् ॥ ३० ॥ स त्रिः प्रदक्षिणीकृत्य वन्दित्वा च जगद्गुरुम् । उपाविशयथास्थानं भक्तितो रचिताञ्जलिः ॥ ३१ ॥ जमालिर्नाम जामेयो जामाता च प्रभोस्तदा । प्रियदर्शनया सार्धं तत्र वन्दितुमायौ ॥ ३२ ॥ जमालिर्देशनां श्रुत्वा पितरावनुमान्य च । क्षत्रियाणां पञ्चशत्या सहितो व्रतमाददे ॥ ३३ ॥ जमालिभार्या भगवदुहिता प्रियदर्शना । सहिता स्त्रीसहस्रेण प्राब्राजीत् स्वामिनोऽन्तिके ॥ ३४ ॥ विहर्तुमन्यत्र ततश्च भगवानपि । जमादिरप्यनुचरः सहितः क्षत्रियर्षिभिः ॥ ३५ ॥ एकादशांगीमध्यैष्ट जमालिविंहरन् क्रमात् । सहप्रब्रजितानां च तमाचार्य व्यधात्प्रभुः ॥ ३६ ॥ । [॥ २२६
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy