________________
॥ अथ अष्टमः सर्गः ॥
अथ भव्यानुग्रहाय ग्रामाकरपुरादिषु । विहरन् ब्राह्मणकुण्डग्रामेऽगात् परमेश्वरः ॥ १॥ बहुशालाभिधोद्याने पुरात्तस्माद्बहिःस्थिते । चक्रुः समवसरणं निवप्रं त्रिदशोत्तमाः ॥२॥ न्यषदत्प्राङ्मुखस्तत्र पूर्वसिंहासने प्रभुः । गौतमाया यथास्थानं सुरायाश्चावतस्थिरे ॥ ३ ॥ श्रुत्वा सर्वज्ञमायातं पौरा भूयांस आययुः । देवानन्दार्षभदत्तात्रेयतुस्तौ च दंपती ॥ ४॥ त्रिश्च प्रदक्षिणीकृत्य प्रणम्य च जगद्गुरुम् । श्रद्धावानृषभदत्तो यथास्थानमुपाविशत् ॥५॥ दवानन्दा प्रभु नत्याषेमदत्तस्य पृष्ठतः । शुश्रूषमाणोचेज्ञाऽस्थावानन्दविकचानना ॥६॥ स्तनाभ्यां साक्षरत्स्तन्यं रोमाञ्चश्चाभवत्तनौ । तदा च देवानन्दायाः पश्यन्त्याः परमेश्वरम् ॥ ७॥ तथाविधां च तां प्रेक्ष्य आतसंशयविस्मयः। स्वामिनं गौतमस्वामी पप्रच्छेति कृताञ्जलिः ॥ ८॥
MORMACROCHAR
१वनाऽस्था ।