________________
*
तत्प्रभावाद्भुतं दृष्ट्वा परं कोपमुपागताः । तेऽप्याककुमारेण प्रत्ययोध्यन्त तापसाः ॥ ३४३ ॥ श्रीमहावीरसमवसरणे प्रेषिताश्च ते । गत्वोपाददिरे दीक्षां शमसंवेगशालिनः ॥ ३४४ ॥ तत्र श्रेणिकराजोऽपि तत्तथा गजमोक्षणम् । तापसप्रतिबोधं च श्रुत्वाऽऽगादभयान्वितः ॥ ३४ ।। भत्तया वन्दितवन्तं चाऽऽनन्दयामास पार्थिवम् । सर्वकल्याणकारिण्या धर्मलाभाशिषा मुनिः ॥ ३४६ ॥ दृष्ट्वा मुनिमनायाधमासीनं शुद्धभूतले । राजाऽपृच्छन्ममाश्चर्य भगवन् ! हस्तिमोक्षणात् ।। ३४७॥ महर्षिरूचे नोर्वीश ! दुष्करं करिमोक्षणम् । तर्कतन्तुपाशमोक्षो दुष्करः प्रतिभासते ॥ ३४८ ॥ राज्ञा पृष्टश्च स मुनिस्तकुंतन्तुकयां तथा । कथयामास राजाऽपि सलोकोऽपि विसिष्मिये ॥ ३४९ ॥ स आर्द्रककुमारर्षिरभाषत ततोऽभयम् । निःकारणोपकारी त्वं ममाभूधर्मवान्धवः ।। ३५० ॥ त्वया हि प्रेषिता राजपुत्राहमतिमा मम । सदर्शनादहं जातीस्मरीभूयाहतोऽभवम् ॥ ३५१ ॥ किं किं त्वया न दत्तं मे किं किं नोपकृतं ननु । येनाहमाईते धर्मे कृत्वोपायं प्रवर्तितः ॥ ३५२ ।। अनार्यत्वमहापंकनिमग्नोऽहं त्वयोद्धृतः । त्वबुद्ध्युत्पन्नयोधः सन्नार्यदेशे प्युपागमम् ॥ ३५३ ॥ परिव्रज्यां प्रपन्नोऽस्मि त्वयाऽहं प्रतियोधितः । ततोऽभयकुमार ! त्वं श्रेयोभिर्भृशमेधसे ॥ ३५४ ॥
**OCRACOCK
R
॥२१॥