SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ KULAM. आद्रकर्षिर्ययो हस्तितापसानामथाऽऽश्रमम् । *उद्वानायातपक्षिप्तहस्तिमांसाकुलोटजम् ॥ ३३०॥ तत्रस्थास्तापसाश्चैकं सुमहान्तं मतंगजम् । हत्वा तन्मांसमनन्तो ते निन्युर्दिवसान पहून ॥ ३३१॥ ने चैवमूचुर्हन्तव्यो वरमेको मतंगजः । यस्यैकस्यापि मांसेन भूयान कालोऽतिगम्यते ॥ ३३२ ॥ मृगतित्तिरमत्स्याद्यैर्वाऽऽन्या यहुभिश्च किम् । नैरप्याहार एवार्थः पापं तत्रातिरिच्यते ॥ ३३ ॥ तदा च ते दयाभासधर्मनिष्ठास्तपस्विनः । माधुरणाग, महाकाय पसरू ।। ३३४ ॥ स भारशृंखलाबद्धो यत्र चाऽऽसीन्मतंगजः । तेनाध्वना स जगाम महर्षिः करुणाधीः ॥ ३३५ ॥ स च हस्ती महर्षि तं मुनिपंचशती पृतम् । ईक्षामास वन्द्यमानं भूलठन्मौलिभिर्जनैः ॥ ३३६ ॥ लघुकर्मा करी सोऽपि मुनि दृष्ट्वेत्यचिन्तयत् । बन्दे यधहमप्येने बद्धस्तु करवाणि किम् ॥ ३३७ ।। महर्षिदर्शनात्तस्य गरुत्मदर्शनादिव । अयापाशा व्यशीर्यन्त नागपाशा इचाभितः ॥ ३३८ ॥ निरर्गलः सोथ हस्ती वन्दितुं तं महामुनिम् । अभ्यसा|जनस्तृच मुनिरेष हतो हतः॥ ३३ ॥ पलायाश्चक्रिरे लोका मुनिस्तस्थी तथैव सः । इभ्योऽप्यवनमत्कुम्भस्थलः प्रणमति स्म तम् ॥ ३४० स्पर्श स्पर्श च तत्पादौ दाहातः कदलीमिय । परमां निवृति प्राप प्रसारितकरः करी ॥ ३४१ ॥ स हस्ती पुनरुत्थाय भक्तिमन्थरया हशा । पश्यन्महर्षि प्राविक्षदरण्यानीमनाकुलः ।। ३४२ ॥ टि-* उद्वानं - शुष्ककरणम् ।
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy