SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ R-CAREER जीवेष्वहिंसा सत्योक्तिरस्तेयं ब्रह्मचारिता । अकिंचन्यं च धर्मोऽयमाईतोऽभिमतोऽस्तु वः ॥ ३१७ ।। स्वामिभक्ताः स्थ हे भद्रा राजवत्स्वाम्यहं चे वः। तन्ममैवामुमध्वानं प्रपद्यध्वं सुमेधसः ! ॥ ३१८॥ ते प्रोचुरग्रे स्वामी त्वं सांप्रतं गुरुरप्यसि । त्वया ज्ञापितधर्माः स्मो दीक्षयाऽनुगृहाण नः ।। ३१९ ॥ इत्याककुमारस्तान प्रव्राज्य सहितश्च तैः । वन्दितुं श्रीमहावीरमभिराजगृहं ययौ ॥ ३२०॥ गच्छतश्च मुनेस्तस्य गोशालोऽभिमुखोऽभवत् । अकृतप्रणयस्तस्मै विवादं च प्रचक्रमे ॥ ३२१ ॥ भूचराः खेचराश्चापि तत्रायाताः सहस्रशः । तस्थुः सामाजिकीभूय कौतुकोत्तानितेक्षणाः ।। ३२२ ॥ गोशालोऽभावदत् कष्टं तपोमूलं वृथैव भोः । शुभाशुभफलानां हि कारणं नियतिः खस्लु ॥ ३२३ ॥ प्रत्यूचे स मुनिर्भा स्म मुखमस्तीत्यहो अवीः । कारणं पौरुषमपि मन्यस्वानेन हेतुना ॥ ३२४ ।। कारणं यदि सर्वत्र नियति ननु मन्यसे । तत्तवापीष्टसिद्धयर्थं प्रसज्जेरन् वृथा क्रियाः ॥ ३२५ ॥ तथाहि नियतिनिष्टः स्थानस्थः किं न तिष्टसि ? । भोजनार्थ प्रयतसे भोजनावसरे च किम् ? ॥ ३२६ ।। एवं नियतिवत्साधु पौरुष स्वार्थसिद्धये । नियतेरप्यर्थसिद्धौ पौरुषं त्वतिरिच्यते ॥ ३२७ ॥ तथाहि खात् पतत्यम्भो भूखातादपि तद्भवेत् । यलीयसी हि नियतिनियतेरपि पौरुषम् ॥ ३२८ ॥ एवं निरुत्तरीचक्रे गोशालं स महामुनिः । तुष्टुवे खेचरायैश्च कुर्षद्भिर्जयमंगलम् ॥ ३२९ ॥ १ भक्ता . ॥ २ वचः D || ३ मुख [.. M. II ॥२१५
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy