SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ सप्तमः तन्मदइयोः कृताः सन्ति यावन्तः सूत्रवेष्टकाः । तावन्त्यब्दानि स्थास्यामि पुत्रप्रेम्णा गृहस्थताम् ॥३०॥ पादयोस्तन्तुबन्धाश्च गणिता द्वादशाभवन् । गार्हस्थ्ये द्वादशाब्दानि ततः सोऽप्यत्यवाहयत् ।। ३०५॥ संधाऽवधौ च संपूर्ण वैराग्येणोररीकृतः । थामिन्याः पश्चिम यामे स सुधीरित्यचिन्तयत् ॥ ३०६ ॥ संसारकूपानिर्गन्तुं ब्रतमालम्बरज्जुबत् । मया प्राप्तं च मुक्तं च मनस्तत्रास्म्यहं पुनः ॥ ३०७ ।। मनसैव ब्रतं भग्नं प्राग्जन्मनि लथाप्यहम् । अनार्यत्वं प्रपन्नोऽस्मि का गतिः स्यादतः परम् ॥ ३०८ ॥ भवत्विदानोमप्यात्तपरिवज्यस्तपोऽग्निना । अग्निशौचांशुकभिवात्मानं प्रक्षालयाम्यहम् ॥ ३०९ ॥ प्रातश्च श्रीमती पत्नी स संभाष्यानुमान्य च । यतिलिंगमुपादाय निर्ममो निर्ययो गृहात्॥ ३१॥ स प्रस्थितो राजगृहमन्तराले ददर्श ताम् । स्वां सामन्त पञ्चशती चौर्यवृत्तिपरायणाम् ।। ३११ ॥ उपलक्ष्य स तैर्भत्तथा ववन्दे सोऽवदच नान् । किमया जीविका पापहेतुर्युष्माभिराहता ? ॥ ३१२॥ तेऽचोचन वश्चयित्वाऽस्मान् पलाधिष्टा यदा प्रभो!। दर्शयामः स्म न तदाऽऽत्मानं भूमिपतेहिया ॥३१॥ तवैवान्वेषणे लग्ना भ्रमन्तः सागराम्पराम् । चौर्य त्यैव जीयामः किमन्यन्निःस्वशस्त्रिणाम् ॥ ३१४॥ मुनिरप्यभ्यधाद्भद्राः! कष्टमापतितं यदि । धर्मानुपन्धि तत्कार्य सफलं लोकयोयोः ।। ३१५ ।। केनापि पुण्ययोगेन मानुष्यकमवाप्यते । प्राप्तस्य तस्य च फलं धर्मः स्वर्गापवर्गदः ॥ ३१६ ।। १. मालंबि र ॥ २ष्टा C. D.E. IN ॐRAKASRAMMARCH
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy