SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ एवं स्थितेऽपि नैष्टुर्यायदि मामवमन्यसे । भूत्वा तदग्निसाहास्ये स्त्रीहत्यापातकं तव ॥ २९१ ।। राज्ञा महाजनेनान्यैरप्युदाहाय सोऽर्थितः । सम्भार तां गिरं दिव्यांशसारम्भनिधिकाम् ॥ २९२ ॥ तां स्मरन्दैवतीं वाचं निर्बन्धेनोदितश्च तैः। महात्मा पर्यणैषीत्तां श्रीमती भावि नान्यथा ॥ २९३ ॥ भुञ्जानस्य चिरं भोगान श्रीमत्या सह तस्य तु । उत्पेदे क्रमयोगेण पुत्रो गार्हस्थ्यकीर्तनम् ॥ २९४ ॥ क्रमेणासादयन् वृद्धि विमुञ्चन् क्षीरकण्ठताम् । स वक्तुमुल्लसज्जितो राजकीर इवाभवत् ।। २९५ ।। पुत्रे तावति स प्रोचे श्रीमती मतिमद्वरः । अतः परं सहायस्ते पुन्नोऽस्तु प्रव्रजाम्यहम् ॥ २९६ ॥ श्रीमती धीमतो तत्रान्तरे ज्ञापयितुं सुतम् । सतृलफूलकं तर्कुमादायासन्युपाविशत् ॥ २७ ॥ सा नर्कुकर्म प्रारभे पप्रच्छ च स बालकः । क्रिमेतदम्ब ! पारब्धं कर्मतरजनोचितम् ॥ २९८ ॥ साऽवोचज्जात : ते तातः प्रव्रज्यार्थ गमिष्यति । गतेऽस्मिन् पतिहीनायाः शरणं तर्कुरेव मे ॥ २०॥ बालकोऽप्यवदद्वाल्यादक्षरैलल्लमन्मनैः। बद्ध्वाऽहं धारयिष्यामि कथं यास्यति में पिता ॥ ३० ॥ इत्युक्त्वा तर्कुसूत्रेण लालयेवोर्णनाभकः । आवेष्टयत् पितुः पादौ स मुग्धमधुराननः ॥ ३०१ ।। उवाच चाम्ब ! मा भैषीः स्वस्था भव मया ह्यसौ । बद्धपादो द्विप इवेशीत यातुं कथं पिता ? ॥ ३०२ ।। श्रीमतीपतिरप्येवमचिन्तयदहो शिशोः । स्नेहानुबन्धः कोऽप्येष मन्मनःपक्षिपाइयभूत् ॥ ३०३ ॥ १ पूलि ॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy