SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ एवं च वाह्यन्नभ्वं स ययावधिकाधिक्रम । पुनः पुनश्च व्याघुट्याययौ ते च विशश्वसुः ।। २५१ ॥ आकनुरन्येयुः पुंभिः प्रत्ययितैर्निजैः । प्रगुणं कारयामास यानपानं पयोनिधौ ॥ २५२ ॥ रश पूरयामास मानपात्रं तदार्द्रकिः । अग्रेऽप्यारोहयामास नत्रार्हत्प्रतिमां च ताम् ॥ २५३ ॥ तदैव वायन्नश्वमशी (इयो) भूप पूर्ववत् । तत्रारुह्य प्रवहणे स ययावानीवृतम् ॥ २५४ ॥ यानादुत्तीर्य संप्रेष्य प्रतिमामभयाय ताम् । सप्तक्षेत्र्यां धनान्युप्त्वा यतिलिंगमुपाददे ।। २५५ ।। उच्चारयितुमारेभे यावत्सामायिकं च सः । आकाशस्थितया तावदूचे देवतयोश्चकैः ॥ २५६ ॥ महावपि त्वं ग्रहीदीक्षां तथापि मा । अयापि ते भोगफलं कर्मारत्यागमयस्व तत् ॥ २५७ ॥ भुक्त्वा भोगफलं कर्माssवदीथाः समये व्रतम् । अवश्यमेव भोक्तव्यं भोग्यं तीर्थकुनामपि ॥ २५८ ॥ महात्मंस्तद् व्रतेनालं यदात्तमपि हास्यते । भोजनेनापि किं तेन यद् मुक्तमपि वम्यते ॥ २५९ ॥ rass ककुमारोऽपि स्वमृरीकृत्य पौरुषम् | देवीं वाचमनादृत्य प्रव्रज्यां स्वयमाददे ॥ २६० ॥ प्रत्येकबुद्धः स मुनिर्नशितं पालयन् व्रतम् । विहरन्नन्यदा प्राप वसन्तपुरपत्तनम् ॥ २६१ ॥ बाह्यदेवकुले कापि तस्थौ प्रतिमया च सः । सर्वाऽधिपरिहारेण समाधिमधिजग्मिवान् ॥ २६२ ॥ तव तस्मिनगरे वरश्रेष्ठी महाकुलः । देवदत्तोऽभवत्तस्य पत्नी धनवती पुनः ॥ २६३ ॥ I १ "क्ष्य C. ८. ।। सप्तमः सर्गः ॥२१० ॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy