SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ तदनुज्ञाप्य पितरमननुज्ञाप्य वाऽप्यहम् । आर्यदेशं गमिष्यामि यत्र मेऽस्त्यभयो गुरुः ॥ २३७ ॥ इत्थं मनोरथं कुर्वन् प्रतिमामादिमार्हतः । पूजयन्नार्द्रकासनुर्व्यतियति स्म वासरान् ॥ २३८ ॥ अन्धेरा कानुनृपमेवं व्यजिज्ञपत् । ताता भयकुमारेण सममिच्छामि दर्शनम् ।। २३९ ।। arthaisy न गन्तव्यं खलु स्वया । वत्स ! स्थानस्थितानां हि सौहृदं श्रेणिकेन नः ॥ २४० ॥ पित्राज्ञया निषद्धश्चोत्कंठितश्चाभयं प्रति । ततश्चाऽऽर्द्रककुमारो न तस्थौ न जगाम च ॥ २४१ ॥ वर्षन्नश्रान्तमस्त्रम्भः स भाद्रपदमेघवत् । अभयोत्कंठितस्तस्थावनुद्वान विलोचनः ॥ २४२ ॥ आसने शयने याने भोजनेऽन्यक्रियास्वपि । अभयालंकुनामाशां दृशोर चकार सः ॥ २४३ ॥ पारापत इव.ड्डीय यियासुरभयान्तिके । न ह्याककुमारोऽगाद्रनिं रोर इवाभवान् ॥ २४४ ॥ की देशः ? कीटग्राजगृहं पुरम् ? । कस्कोऽध्वा तत्र गमने ? ऽपृच्छदेवं च पार्श्वगान् ॥ २४५ ॥ दयावाकराजोऽपि कुमारो मम निश्चितम् । यास्यत्यकथयित्वैव कदाऽप्यभयसन्निधौ ॥ २४६ ॥ ततश्च पञ्च सामन्तशतान्यादिशदार्द्रकः । यदार्द्रककुमारोऽयं रक्ष्यो देशान्तरं व्रजन् ॥ २४७ ॥ देहच्छायेव तत्पार्श्व सामन्तास्तेऽत्यजन्न हि । चन्दे धृतमिवात्मानं कुमारोऽपि मस्त सः ॥ २४८ ॥ आर्द्रकिर्हृदये कृत्वाऽभयोपगमनं सुधीः । प्रत्यहं कर्तुमारेभे वाह्याल्यां वाहवाहनम् ॥ २४९ ॥ अश्वारूढाच पार्श्वेऽस्थुः सामन्तास्तेऽङ्गरक्षकाः । कुमारो वाहयन्नश्वं किञ्चित्वा न्यवर्तत ॥ २५० ॥ ।। २०९ ॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy