________________
भार्या बन्धुमती मेsभूदश्रौषं च तया सह । यथावदार्हतं धर्मं सुस्थिताचार्य सन्निधौ ।। २२४ ॥ धर्मासनापि प्रतिबुद्धस्तदन्तिके । गृहवासविरक्तोऽहं परिब्रज्यामुपात्तवान् ॥ २२५ ॥ पत्तने चाहमेकस्मिन् गुरुणा विहरन्नगाम् । बन्धुमत्यपि तत्राऽऽगात् संयताजनमध्यगा || २२६ ॥ एकस्मिन्नहि तां पश्यन स्मरन् पूर्वरतान्यहम् । अनुरक्तोऽभवं तस्यां तदाख्यं चान्यसाधवे ॥ २२७ ॥ सोऽप्याचख्यौ प्रवर्तिन्यै बन्धुमत्यै च सा पुनः । प्रवर्तिनीं च प्रोवाच विषण्णा बन्धुमत्यदः ॥ २२८ ॥ गीतार्थोऽप्येष मर्यादां लंघेन यदि का गतिः १ मर्यादां पालयन्नब्धिरपि पृथ्वीं न लुंपति ॥ २२९ ॥ देशान्तरमपि गतां यावच्छ्रोष्यति मामसौ । तावन्महानुभावश्च मयि रागं न हास्यति ॥ २३० ॥ तस्मादहं भगवति ! पपत्स्ये मरणं खलु । न चास्य नापि मे शीलखंडनं जायते यथा ॥ २३९ ॥ इति साऽनशनं कृत्वा स्वमुध्य च लीलया । निष्ठ्यूनवज्जहौ प्राणान् देवभूयमियाय च ॥ २३२ ॥ तथा मृतां च तां श्रुत्वा मयाऽप्येतद्विचिन्तितम् । महानुभावाऽमृत सा व्रतभंग भयात् खलु || २३३ ।। भवतः पुनरहं तदलं जीवितेन मे । कृत्वेत्यनशनमहं विषद्य त्रिदशोऽभवम् ॥ २३४ ॥ ततश्च्युत्वाहमुत्पन्नोऽस्म्यनाय धर्मवर्जितः । प्रतिबोधयिता यो मां स बन्धुः स गुरुश्च मे ॥ २३५ ॥ भाग्योदयेन केनापि बोधितोऽभमंत्रिणा । अद्यापि मन्दभाग्योऽस्मि तं द्रष्टुं यदनीश्वरः ॥ २३६ ॥
बोमय्यनुरागं D1.1
सप्तमः
| सर्गः
| ॥ २०८