________________
सप्तमः
KARAirTOARD
अवाप्य पितुरादेशं स्वमनोरथसन्निभम् । जनान्तिकेन सथि तमुकापाकापुताः । १९६ ॥ मा यासीर्मामनापृच्छय श्रोतव्यं गच्छता त्वया । अभयं प्रति मे स्नेहमयीजनिभं वचः ॥१९७ ॥ मच्यप्येवमिति प्रोचे कुमारं सुकुमारगीः। राज्ञा विमृष्टश्च ययौ वेत्रिदार्शतमाश्रयम् ॥ १९८॥ अन्येगुर्मोक्तिकादीनि प्राभृतान्याकेश्वरः । अर्पयित्वा स्वपुरुषं व्यस्राक्षीन्मन्त्रिणं च तम् ॥ १९९ ॥ अथाककुमारोऽपि हस्ते तस्यवै मन्त्रिणः । भैषी द्विद्रुममुक्तादिवस्तून्य भयहेतवे ॥ २० ॥ स पुमान्मन्त्रिणा साधं गत्वा राजगृहे पुरे । प्राभृतान्यपैयामास श्रेणिकायाभयाय च ॥ २०१॥ अभयस्य समाचख्यौ वाचिकं चेति मन्त्रिराट् । स आर्द्रककुमारस्ते सख्यं सौभ्राथमिच्छति ॥ २०२ ॥ अचिन्तयचेत्यभयः कुशलो जिनशासने । विराधितश्रामण्यत्वाज्जातोऽनार्येषु स ध्रुवम् ।। २०३ ॥ नूनमासन्नभव्यः स महात्मा राजपुत्रकः। अभव्यदूरभव्यानां न मया सख्यकामना ॥ २०४ ॥ समानपुण्यपापानां प्रीतिः प्रायेण देहिनाम् । तेषां ह्येक स्वभावः स्यान्मैत्री चैकस्वभावजा ॥ २०५॥ तदुपायेन केनापि कृत्वा तं जिनधर्मिणम् । आप्तो भवामि स ह्याप्तो योऽग्रेगूधर्मवमनि ॥ २०६॥ तस्याककुमारस्य तीर्थकृतिम्वदर्शनात् । उत्पद्यते यदि पुनर्जातिस्मरणमुत्तमम् ॥ २०७ ।। तत्माभृतच्छलेनाहत्मतिमामहमुत्तमाम् । प्रेषयामि रत्नमयों महाऽऽचार्यप्रतिष्ठिताम् ॥ २०८ ।। इत्यादिनाथदेवस्याप्रतिमा प्रतिमां न्यधात् । पेटामध्ये समुद्गस्थां श्रेयस्कामगवीं स्वयम् ॥ २०९ ।।