SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ ---- SAMPARKHANSALMANGAR अन्यदा नगरे कौमुद्युत्सवोऽभून्मनोरमः । शृंगाररससर्वस्वनाटिकासुखसन्निभः ॥ १५ ॥ कुमारयुवतिर्मात्रा सहोत्सदिहक्षया । युवलोचनसारंगयागुरा सा समाययौ ॥ १५६ ॥ शुचिसंव्यानसंवीतसर्वागी श्रेणिकाभयो । विवाहपस्थितवराविय तत्र समेयतुः ॥ १५७ ॥ महत्युत्सवसमर्दे श्रेणिकस्य करोऽलगत् । आभीरीदुहितुस्तस्या हृद्युम्नतकुचस्थले ॥ १५८ ।। राजा जातानुरागो द्राक् तस्या निवसनाचले । निजां बथन्ध संभोगसत्यकारमिवोर्मिकाम् ॥ १५९॥ अभयं चादिशन्नाममुद्रा में व्यग्रचेतसः । केनाप्यहारि तच्छोध्यस्त्वया तदपहारकः ॥१६० ।। रुरोध धीमतां धुर्यों रंगद्वाराण्यथाभयः । लोकानेकैकनारे कष्टुं हाराशिवाक्षियाः ।। १६१ : सर्वेषामपि वस्त्राणि केशपाशान् मुखानि च । अभयः शोधयामास धिषणाधनशेवधिः ॥ १६२ ।। आभीरीपुत्रिकायाश्च तस्या वस्त्रादि शोधयन् । स ददाश्चले बद्धां नृपनामांकितोर्मिकाम् ॥ १६३ ॥ तामपृच्छच्च जगृहे त्वयेयं कथमूर्मिका ? | कर्णी पिधाय साऽप्यूचे न जाने किंचिदप्यदः॥ १६४॥ तां च रूपवती दृष्ट्वा स दध्यौ धीमतां वरः । नूनं तातोऽनुरक्तोऽस्यामाभीरीदुहितर्यभूत् ॥ १६५ ।। अस्याः संग्रहणविधायभिज्ञानं निजोर्मिकाम् । राजा रागपरवशो थबन्ध नियतं स्वयम् ॥ १६६॥ अभयश्चिन्तयन्नेयं तां निन्ये राजसन्निधौ । राजाऽप्यपृच्छत् किं प्राप्तो ? यशस्कर ! स तस्करः ॥ १६७ ॥ RRCTCHECEMAMTAX 10
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy