________________
R
| सप्तमः
सुगन्धचोक्षवसना नानालंकारधारिणी । अंगरागविलिमा सा दध्यो शृंगारमोहिता ॥ १४२ ।। अर्हद्भिर्भाषितो धर्मोऽनवद्यः सकलोऽपि हि । लायेत प्रासुकाम्भोभिश्चेदोषः स्यात्तदा हि कः ।। १४३ ।। मुनीनां मलदुर्गन्धजुगुप्सनसमुद्भवम् । दुष्कर्म तदनालोच्याप्रतिक्रम्य च सा मृता॥१४४ ॥ मृत्वा राजगृहे राजञ्जगाम गणिकोवरे । अभून्मातुश्च सा गर्भस्थिताऽप्यरतिदायिनी ॥ १४ ॥ वेश्यया प्रत्यहं पीतैर्गर्भपातौषधैरपि । स गर्भो नापतत् कर्म बलीयः कीरगौषधम् ।। १४६ ॥ साऽस्तेमां सुतां वेश्या दुर्गन्धा तेन कर्मणा । विष्टामिव च तत्याजोदरानिपतितामपि ॥ १४७॥ पप्रच्छ सुनरप्येवं श्रेणिकः परमेश्वरम् । सुखदुखानुभवभाक् कथमेषा भविष्यति ? ॥ १४८ ॥ स्वाम्याख्यदनया सर्वमपि दुःखमभुज्यत । यथा तु सुखभागेषा भविष्यति तथा शृणु ॥ १४९ ॥ अष्टौ वर्षापयसावग्रमहिषी ते भविष्यति । अभिज्ञानमिदं चात्र तत्परिज्ञानकारणम् ॥ १५० ।। शुद्धान्ते रममाणस्य तब पृष्ठे करिष्यति । या हंसलीलां जानीथास्तामिमां मगधाधिप ! ॥१५१ ॥ अहो आश्चर्यमेषा मे कथं पत्नी भविष्यति । चिन्तयन्निति राजाऽगाद् गृहे नत्वा जिनेश्वरम् ॥ १५२ ॥ दुर्गन्धायाश गन्धोऽथ कर्मनिर्जरया ययौ । आभीर्या चैकया दृष्टोपाददे साऽनपत्यया ॥ १५३ ॥ आभीर्योदरजातेव पाल्यमाना क्रमेण सा । बभूव यौवनप्राप्ता रूपलावण्यशालिनी ॥ १५४ ॥
RCHASANGRAHANGANA