SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ सप्तमः यूनचौरेण च प्रोचे चौरा दुष्करकारकाः । अलुण्टितसुवर्णेव नवोढा यैरमोचि सा ॥ ११४ ॥ अभयोऽपि परिज्ञाय तस्करं समधारयत् । पप्रच्छ च कथं चूतापहारो विदधे त्वया ? ॥११५ ॥ यौरोऽप्यकथयद्विद्याबलेनेति मताभयः । रातमधमाचधात व चौरं समार्पयत् ॥ ११६ ॥ अणिकोऽप्यवदत्प्राप्तश्चौरो नान्योऽप्युपेक्ष्यते । शक्तिमान् किं पुनरयं तन्निग्राह्यो ह्यसंशयम् ॥ ११७ ॥ अभयोऽप्यच्छलं मार्य महीनाथं व्यजिज्ञपत् । विद्याऽस्माद् गृह्यतां देव ! पश्चायुक्तं करिष्यते ।। ११८ ॥ नतश्च मातंगपतिमुपवेश्यात्मनः पुरः। विद्यां पठितुमारेभे तन्मुखान्मगधाधिपः॥ ११९ ॥ राज्ञः सिंहासनस्थस्य सा विद्या पठतोऽपि हि । हृदि नावस्थितिं चके वारि च्युतमिवोन्नते ॥ १२०॥ ततश्च तर्जयामास चौरं राजगृहेश्वरः। कूटं किमपि ते विद्या न संक्रामति यन्मयि ।। १२१ ॥ अभयोऽप्यभ्यधाव ! विद्यागुरुरयं हि वः । गुरौ विनयभाजा हि विद्या स्फुरति नान्यथा ॥ १२२ ॥ आस्यतामेष मातंगो देव ! सिंहासने निजे । अस्याग्रे त्वञ्जलिं बद्ध्वा स्वयं भुन्युपविश्यताम् ॥ १२३ ॥ तस्याथ प्रतिपत्तिं तां विद्यार्थी नृपतिय॑धात् । नीचादप्युत्तमा विद्यां गृह्णीयात्मथितं यादः ॥ १२४ ॥ उन्नामन्यवनामन्यो विये तद्वदनाच्छुने । राज्ञो हृयवतस्थाते दर्पणे प्रतिबिंववत् ॥ १५ ॥ अभयोऽपि महीपाल प्रसाद्य रचिताञ्जलिः । विद्यागुरुत्वमापन्नं तं चौरं पर्वमोचयत् ।। १२६ ।। अन्यस्मिन्नहि समवसृतं श्रीज्ञातनन्दनम् । नन्तुं गजघटाघण्टाटंकारैः पूरयन् दिशः ॥ १२७॥ CAKCXCRICK
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy